पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
शृङ्गारधनशतकम् ।

लीलातामरसं मलीमसमभूदुच्छ्वासतोऽधः पत्त-
 त्संकेतालयतल्पकल्पनपरा तेऽध्वानमन्विष्यति ॥ २५ ॥
मानश्चेतसि नाथ वासकलहो नालिङ्गने नेति न
 स्वैराभाषणमौनिता न शयने वैमुख्यबुद्धिश्च न ।
सीत्कारोऽधरखण्डने न सुरते मुग्धाक्रमो नेति ना
 पुंभावं गतया हठादभिहितः स्त्रीत्वं गतः पुण्यवान् ॥ २६ ॥
धूपेनागुरुजन्मनाथ सुमनोमालाभिरत्यादरा-
 द्दीपं दैवतमामनन्ति सुदृशामानर्च पत्युः पुरः
ज्ञानोन्मेषदृढप्रकाश भवतः कुर्वे प्रणामाञ्जलिं
 सद्यः कज्जल(१)मुद्वमायमधुना कान्तो रतायोत्सुकः ॥ २७ ॥
मानेनासि सखि क्षमा शिशुरयं न प्राणनाथोऽपि ते
 नास्माभिः सखि वञ्चितासि कतमस्ते खण्डिताया भ्रमः ।
भुक्तासीति न कथ्यते कथय तत्का नाम ते चातुरी
 पत्राली न मलीमसा न मलिनो जातोऽङ्गरागःक्वचित् ॥ २८॥
युष्मासु स्वयमुस्थितासु शयने लुप्ते चिरान्मण्डने
 मा लजस्व नवं लिखाम दयितो मां याचते स्मासकृत्
भावैरष्टविभागतोऽनु रचनाः प्रत्यूहमासादिताः
 प्राप्तेयं नवमी कथं कथमपि प्रातस्ततोऽभूदहः ।। २९ ।।
स्वादङ्गादवतार्य नूपुरयुगं न्यस्तं सखीपादयो-
 र्मध्ये दीर्घनिनादिनीं मणिमयीं बद्धा दृढं मेखला ।
ज्योतिःपूरमुरःस्थले कृतनवं हारं प्रियाप्राप्तये
 मुग्धा गच्छति मन्दमन्दमुदितत्रासा जनावेक्षणात् ॥ ३० ॥
तल्पे जल्पितमल्पमेव तदनु व्याख्यातमन्तर्गृहे
 पारेद्वारमुदाहृतं प्रतिपदं व्यावृत्तमाराद्बहिः ।
सीमान्ते प्रतिदृष्टमध्वनि हठादाशङ्कितं प्रौढया
 कान्तोत्सङ्गतले तयाखिलमलं तत्संहृतं वाचिकम् ॥ ३१ ॥