पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
दूतीकर्मप्रायः

पण्डरीविह्वलाख्यकविविरचितो
दूतीकर्मप्रकाशः।

 गणेशं भारतीं नत्वा रसिकानन्दवृद्धये
 पण्डरीविह्ललाख्येन दूतीकर्म प्रकाश्यते ।।
दूती पारंगमा दौत्यव्यापारे संनिवेदनम् ।
विरहस्य च तस्यास्तु कर्म संघटनादिकम् ॥ १ ॥
सखी विप्रश्निका चेटी स्वयंदूती च शिल्पिनी ।
विचित्रवचना गानवती धात्री कुमारिका ।।२।।
प्रासङ्गिनी मालिनी च स्खलिता प्रतिवेशिनी ।
परचित्तविशेषज्ञा चेष्टासंकेतकोविदा ॥३॥
रजकी सौचिकी वेषधारिणी मणिहारिणी।
कथिनी नापिकी चेति सैकविंशतिया मता ॥ ४ ॥
एताः साधारणा दूत्यो नायिकास्वखिलास्वपि ।
तच्चरित्रमिति ज्ञातुं ब्रह्मणापि न शक्यते ॥ ५ ॥
तथापि लौकिकश्रेष्ठरसिकानन्दकारणम् ।
दूतीकर्मैकदेशेन लक्ष्मोदाहरणं ब्रुवे ॥ ६ ॥

सखी विश्वासविश्रामकारिणी पार्श्वचारिणी
मण्डनोपालम्भशिक्षापरिहासादिका यथा ॥१॥

चक्रे चन्द्रमुखी प्रदीपकलिका धात्री घरामण्डले(१)
 तस्या दैववशाद्दशापि चरमा प्रायः समुन्मीलति ।
तद्ब्रूमः शिरसा न तेन सहसा श्रीकृष्ण निक्षिप्यतां
 स्नेहस्तत्र यथा तथा न भवति त्रैलोक्यमन्धं तमः ।।
  (इति सखी।)
ज्योतिःसामुद्रिकाभिज्ञा मालिनी चेति भाषिणी ।
तव योग्योऽपरः कामो भवेद्विप्रश्चिका यथा ॥ २ ॥

१. अयं हि कविवरः कदा धरामण्डलं मण्डयांचकारेति न निश्चीयते.