पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
काव्यमाला ।

स्वस्थीकृत्वा तरुणितिलकं संययौ खेचरेशं
 न्यक्कुर्वन्तं चमरपक्नैरात्मनो धर्ममार्गम् ।
प्रत्यागच्छन्वननृपशिरोमौलिमाणिक्यमाभिः
 पादाब्जे स्वे मधुपरचनां संदधानं सभान्ते ।। ९६ ॥
नत्वायोचच्छृणु खगपते मामकीं सारवाचं.
 तारां हृत्वा कथमिह हृदि स्वास्थ्यमामोति मूढः ।
कुक्षौ कृत्वा विषमगरलं जीवितुं कोऽप्यधीश-
 स्तस्मात्याज्या परकुलवधूर्वाञ्छता स्वात्मभद्रम् ॥ ९७ ॥
नो क्रीडातो न हि धनमदान्नापि चाज्ञानभाषा-
 त्कामान्नो मे गजपतिगमाः सन्ति गेहे स्वचर्यः
ज्ञातुं तेजोऽप्रमितमहसो भर्तुरस्यां च युद्धे
 तेनानीता प्रवसति भुजे तत्तदा यान्तु शीघ्रम् ॥ ९८ ।।
श्रुत्वा चैतत्खगपजननी संनिवार्य स्वसूनुं
 युद्धं कर्तुं विधृतधनुषं सार्पयत्तां च तस्मै ।
साध्यासाध्यं निजमतिवशाद्ये प्रगम्य स्वकार्यं
 कुर्वन्तोऽमी क्वचिदपि जना नापमान प्रयान्ति ॥ ९९ ॥
तो लात्वा श्रीविजयनृपतेः संमुखं वागतस्य
 योद्धं सैन्यैर्जितखगरिपोः श्रीप्रभाचन्द्रकीर्तेः,
सूर्यश्चक्रीशिवविरहिणे चक्रवाकाय दत्ता
 दुष्टो वायुर्न भवति धृतिः कस्य चेष्टं प्रकर्तः ॥ १०० ॥
पादौ नत्वा जगदुपवृतावर्धसामर्थ्यवन्तौ
 विघ्नध्वान्तप्रसरतरणेः शान्तिनाथस्य भक्त्या ।
श्रोतुं चैतत्सदसि गुणिना वायुदूताभिधानं
 काव्यं चक्रे विगतवसनः स्वल्पधौर्वादिचन्द्रः ॥ १०१ ॥

इति सूरिवादिचन्द्रकृत पवनदूताभिधं काव्यं समाप्तम् ।