पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
पवनदूतकाव्यम् ।

कुर्वे किंवा विधिविलसिताश्चाधुना दुर्निवारा-
 द्वृक्षाः शैलाः परमसरितो ह्वन्तरे संगता मे ॥ ३७ ।।
पादौ दृष्ट्वा वनभुवि तवानन्ददौ प्रेमबन्धा-
 दात्मानं खप्रणतमभितो यावदीहे प्रकर्तुम्
तावत्पुष्पैस्तरुकपिगतेः संच्युतैश्छादितौ तौ
 पापं तस्मिन्नपि न सहते संगमं सौत्यहेतुम् ॥ ३८
कृत्वा भूषां तव न च तनौ लोकयन्रूपमुच्चै-
 र्लोकेऽत्यन्तं नयनरुचिरं लोकष्टिप्रदोषम् ।
हन्तुं स्वच्छे कनकसदृशे कज्जलं तत्कपोले
 सद्यो दोषाकृतमिह मया संस्मरामि त्रिसंध्यम् ।। ३९ ।।
हस्ताङ्गी ते वरमुखि सुखं नालकेल्यौ वनेजं
 वक्षोजौ वा कटितटमलं श्यामकेशाः शिरस्याः
चक्रौ सिंह फणिरिपुकुलं निर्जयन्ति रस येशा()-
 स्तेषां स्मर्तुर्मम च विरहे रात्रयो वर्षकल्पाः ॥ १० ॥
घोरारण्यं विपुलनगरं कन्दरा स्वर्णगेहं
 शय्या पौष्पी पृथुतरशिला व्यालरत्नानि दीपाः
पर्णाधो वा विमलमशनं त्वक्तरोर्देवबासो
 जानीयास्त्वं कमलनयनादर्शने भो समायि ॥ ४१ ।।
अस्यां पुर्या मुरजजनिताः कर्णरम्या निनादाः
 प्रोत्सङ्गेहाः कनकघटिताः सूध्वजोत्तम्भिकुम्भाः ।
सा मेऽत्यन्तं सजलपरिखा तां विना दुःखबीजं
 किं वारण्यं विविधविषमा भीतिदा यत्र भावाः ॥ ४२ ॥
मा देयास्त्वं जगति सरितां देहिनां जन्म मार्त्यै
 देयास्त्वं चेत्कथमपि पुनस्तर्हि मा संप्रयोगम् ।
दत्त्वा तं भो प्रदयनिलयं मा विधेया वियोगं
 भूयो भूयस्तव पदपुरश्चेदमभ्यर्थयामि ॥ ४३ ॥