पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
पवनदूतकाव्यम् ।

कि निःश्रेणिः शिखरपदवीं गन्तुकामस्स चाद्रे-
 र्गङ्गां दृष्ट्वा सुतटनटतो भाविनी तेऽत्र शङ्का ॥ २४ ॥
भूयो द्रष्टा जगदधिपतेरालयं तीर्थकर्तु-
 स्तीक्ष्णैः शृङ्गैर्हतधनपतद्वारिसंसिक्तदेहम् ।
नृत्यच्छका तनुकरकजोद्भूतरेणुभ्रमौषं
 प्रान्तोद्यानावनिभवखगध्वानदत्तप्ररावम् ॥ २५ ॥
भीमाटव्यानमरवनितास्पर्धिरूपाभिमाना
 वेणीबन्धप्रथितकुसुमा भूर्जपत्रापवस्त्राः-
गुञ्जायुक्ततृणमणिगला यत्र भिल्लादिनार्य-
 स्तास्त्वं पश्येर्यदि हि भवतो दृष्टिसृष्टिश्च देवान् ॥ २६ ॥
गच्छेर्वन्दंस्त्वमपि शमिनः संजयं तस्य साधोः
 पादौ नन्तुं निजगृहमणैः खेचरैरापतद्भिः ।
सिद्धौ यत्र वलनजटिनः साधयामास पुत्रो
 ज्वालामाली खगगणनतामर्ककीर्तिर्महौजाः ।। २७
तत्संदृष्टेर्भवतु भवतो विघ्नराशेः प्रहाणिः
 सद्यश्चोग्रायुधगणकराः शत्रवो यान्तु नाशम् ।
भूयाद्भूयः प्रतिपदमलं मङ्गलं मन्जुलं च
 प्राप्तोदन्तः पुनरिह मया सौख्यदः संगमस्ते ॥ २८ ॥
दुःखानि त्वं समगतवधोर्मित्र जानासि सम्य-
 विश्वप्राणः श्रिततनुमता वृद्धकारुण्यभावः ।
तस्मात्तेऽहं पदमुपगतः सर्वलोकानपेक्षा
 कृत्यं ते यद्भवति सदयं तत्त्वयापादनीयम् ॥ २९ ॥
सद्यः कार्ये कृतमिह नृणां दत्तमाह्लादकारि
 तस्माच्छीघ्रं पवन मनसः साधयेष्टं प्रगम्य
त्वत्तः कार्ये न भवति पुनर्नेति चित्तप्रतीतिः
 कालं नीत्वा विहितमिह तन्नैव चित्तं धिनोति ॥ ३० ॥