पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
पवनदूतकाव्यम्

आरुह्याग्रे सुखदमतुलं वेगतः संप्रगच्छेः
 पादैर्गन्तुं न भवति सतां दूरमार्गो हि शक्यः ।। ११ ॥
स्त्रीभिः शीर्षे मधुमदकृतां संधृतां पुष्पकाना-
 मालिप्तानां वपुषि सरसैः केसरैश्चन्दनानाम्
संक्षिप्तानां श्रुतिपुटयुगे मूल्यकस्तूरिकाणां
 गृहन्गन्धं बहुमधुरिमकान्तगेहान्तराणाम् ॥ १२ ॥
पुत्रः सीतां दशमुखहृतां तावको दूरनाथां
 तत्संदेशैपितकुशलैर्जीवयामास वेगात् ।
तत्किं चित्रं त्वकामह पदे संस्थितस्तां च पैञ्ये
 प्रायः कार्ये लघुजनकृतं नाधिके चित्रकारि ॥ १३ ॥
रात्रौ स्त्रीणां सुरतसमये प्रेक्षितुं खेचराणां
 नग्नं चाङ्गं पवन सततं नेत्रदत्तानुरागम् ।
हार्म्यान्तःस्थान्प्रहततमसो दीपकान्मा विहन्याः
 प्रायः सन्तः सकलसमये रङ्गभङ्गे न शूराः ।। १४ ।।
नीरं नद्या उपकृतिकरं शोषयन्नान्धवत्या-
 स्तत्कंजानां परमिह भुवां यादसां च प्रहन्ता
तस्माद्रक्षञ्जलमविकलं येन ते धर्मराशिः
 कार्ये कार्ये परमविदुषा हिंसयैवात्र लोके ॥ १५ ॥
गच्छन्तीनां निशि पतिगृहं येऽधकारं सृजन्ति
 तास्त्वं स्त्रीणां स्थगितमबनं छादयित्वाजताराः
दूरीकुर्या विरहिविषदानम्बुवाहास्वशक्त्या
 प्रायः सन्तः शिशुतरुणिषु ह्यार्द्रचित्ता भवन्ति ॥ १६ ॥
तस्याः शुम्भत्तटभवनगस्थायिहंसांगतापं
 मन्दं यास्त्वं बहुगिरिवशात्संनिवार्यासदिष्टः
तत्पक्षैश्च द्विगुणितवपुश्चालितैश्चामरामै-
 र्भूयाः सन्तो न हि पस्कृतं चोपकारं सहन्ते ॥ १७ ॥