पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । मन्दं मयि स्पृशति कण्टकिताङ्गयष्टि- मुत्फुल्लगण्डफलकां बहुशः स्मरामि ॥ १०८ ॥ अद्यापि तां प्रथममेव गतां विरामं निर्भर्त्स्य रोषपरुषैर्वचनैर्मुहुर्माम् । आन्दोलितोद्धतनितम्बसहायवृत्त्या संचिन्तयामि हृदयं सुदतीममीक्ष्णम् ।। १०९ ॥ अद्यापि तां विलुलिताकुलकेशपाशां किंचित्समुन्मिषितपूर्णितजिह्मनेत्राम् सुप्तोत्थितां विदधतीं मुहुरङ्गभङ्गं पश्यामि चारुमधरं बहुशः स्मरन्तीम् ॥ ११० ॥ अद्यापि तां सुवदनां वलभीनिषण्णां तद्गेहसन्मुखमहो खलु दृष्टमत्र । मर्मोत्तरं प्रियसखीषु कृतस्मितासु लजां विलक्ष्य हसितां हृदि चिन्तयामि ॥ १११॥ अद्यापि तामनुनयत्यपि चाटु पूर्वं कोपात्पराकृतमुखीं मयि सापराधे । आलिङ्गति प्रसभमुत्पुलकाङ्गयष्टिं मामेति शेषपरुषे ब्रुवतीं स्मरामि ।। ११२ ॥ अद्यापि तामुषसि तत्क्षणविप्रबुद्धां निद्रालसां हृदि वहामि शताङ्गभङ्गाम् । जृम्भाविदीर्णमुखमारुतगन्धलब्ध- मुग्धश्रमद्भ्रमरविक्रमलोलपत्रम् ॥ ११३ ॥ अद्यापि तां प्रथमसंगमजातलज्जां नीव्यां स्पृशत्यपि करे मम मन्दमन्दे । फूत्कारकम्पितशिखातरलं प्रदीप कर्णोत्पलेन निजिघांसुमहं स्मरामि ॥ ११४ ।।