पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बिह्लणकाव्यम् । अद्यापि तत्परिवेषशशिप्रकाश- मास्यं स्मरामि जडगात्र विवर्तनेषु तद्वेलदुज्ज्वलकराङ्गुलिजालगुम्फ दोःकन्दलीयुगलकं दयितं प्रियायाः ।। १०२ ।। अद्यापि तामनुनत्यपि मय्यसक्तां व्यावृत्तकेलिशयने शयतीं पराचीम् । निद्राकुलामिव ममाभिमुखीमवन्तीं प्रातर्मदङ्गनिहितैकभुजां स्मरामि ॥ १०३ ।। अद्यापि तां स्मितमुखीं पुरुषायितेषु लम्बालकाकुलकपोललतां स्मरामि । आन्दोलनश्रमजलाकुलविह्वलाङ्गीं श्वासोत्तरं वनिभृतं मुमुहुः शशाङ्गीम् (1) ॥ १०४ ॥ अद्यापि तां मयि गते चिरकोपयन्तीं यान्तीं समागतवतीं परिवर्तमानाम् । ऊर्ध्वस्थितां किमपि मञ्चतलं निषण्णां शय्यां समाश्रितवतीमधिकं स्मरामि॥ १०५॥ अद्यापि तामरुणयत्यरुणेन्तरिक्ष- मापृच्छमानमपि नाम विधारयन्तीम् उत्थाप्य निश्चदृशौ मम निःश्वसन्ती चिन्ताकुलां किमपि नम्रमुखीं स्मरामि।। १०६ ।। अद्यापि तां जघनदर्शनलालसेन क्रान्तं मया इव(१)समाञ्चलमेव पश्चात् । पूर्वोक्तितामपरतो बहुशः क्षिपन्तीं मन्दाक्षरं(१)कुचितसर्वतनुं स्मरामि ।। १०७ ।। अद्यापि तां सुनिभृतं पदमापतन्तं मां द्वारि वीक्ष्य सहसैव निषण्णसुप्ताम् ।