पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। मद्भावचिह्नितपदं मृदुकाकलीभिः किंचिद्विमानमनिशं मनसि स्मरामि ।। ९५ ।। अद्यापि तत्तरलतास्तताक्षमास्य- मालिप्तचन्दनरसाहितपाण्डुकान्ति । कस्तूरिकाकुटिलपत्रलताभिरामं गण्डस्थलं हृदि गतं स्थिरयामि तस्याः ॥ ९६ ॥ अद्यापि तत्कृतकचग्रहमाग्रहेण दन्तैर्भया दशनवाससि खण्ड्यमाने तस्या मनाङ्मुकुलिताक्षमलक्ष्यमाण- सीत्कारगर्भमसकृद्तवदनं स्मरामि ।। ९७ ॥ अद्यापि तानि ममचेतसि विस्फुरन्ति बिम्बोष्ठमष्टपरिकीर्णशुचिस्मितानि । पीयूषपूरमधुराणि त्त्वदुत्तराणि वाक्यानि मन्मथभवानि मृदूनि यस्याः ॥ २८ ॥ अद्यापि तो कनकपत्रसनाथकर्णा- मुत्तुङ्गकर्कशकुचार्षिततारहाराम् । काञ्चीनिपुञ्जितविशालनितम्बनिन्बा- मुद्दामनपुररणच्चरणां स्मरामि ।। ९९ ॥ अद्यापि तां भुजलतार्पितकण्ठमाशां वक्षस्थलं मम पिधाय पयोधराभ्याम् । ईषन्निमीलितसलीलविलोचनान्तां पश्यामि मद्वनमुक्तमदं पिबन्तीम् ।। १०० ॥ अद्यापि तानि परिवर्तितकन्धराणि किंचित् क्षुतत्रुटितकञ्चुकजालकानि । तस्या भुजाग्रलुलदुद्बलकुन्तलानि चित्ते स्फुरन्ति मम वक्रविलोचनानि ॥ १०१ ॥