पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बिल्हणकाव्यम् । अद्यापि तां मयि कृतागसि धृष्टभावं संभावयत्यपि मुहुर्निगृहीतवाचम् । अन्तर्निरुद्धगुरुकोपसबाष्पकण्ठी निःश्वासशुष्यदधरां रुदतीं स्मरामि ।। ८९ ।। अद्यापि तां समपनीतनितम्बवस्त्रा पश्यामि मन्मथशासनविह्वलाङ्गीम् । एकेन गुह्यनिहितेन करेण पाणि- मन्येन नाभिकुहरावतारयन्तीम् ।। ९० ॥ अद्यापि तां रहसि दर्पणमीक्षमाणां संक्रान्तमत्प्रतिनिधिं मयि पृष्टलीनाम् पश्यामि वेपथुमतीं च सुविभ्रमां च लज्जाकुलां च दयितां च सविभ्रमां च ॥ ९१ ।। अद्यापि तां सुरभिदुर्धरगन्धलोलं धावन्तमास्यमनिशं गतिचञ्चरीकम् । किंचिच्चकोररुचिकुञ्चितचारुनेत्रां पश्यामि केलिकमलेन निवारयन्तीम् ।। ९२ ।। अद्यापि तामितरतश्च पुरश्च पश्चा- दन्तर्बहिः परित एव परिभ्रमन्तीम् । पश्यामि फुल्लकनकाम्बुजसंनिभेन वक्रेण चारुपरिवर्तितलोचनेन ॥ ९३ ॥ अद्यापि तानि मम चेतसि संस्फुरन्ति कर्णान्तसंगतकटाक्षनिरीक्षितानि । तस्याः स्मरत्तरकराणि मदालसानि लीलाविलासबहुलानि विलोचनानि ॥ ९४ ॥ अद्यापि तां मयि कपाटसमीपलीने मन्मार्गमुक्तदृशमाननदत्तहस्ताम् ।