पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बिहणकाव्यम् । ज्ञात्वा स्वयं सकलमर्थमनर्थमूलं प्रोवाच रोषवशगः शुभमन्त्रिणस्तान् । चौरस्य किं भवति मन्त्रिभिरेवमुक्तं शूलाधिरोहणमिति क्रियतां च तस्य ।। ६३ ।। भूपाज्ञया सपदि वर्षधरैर्विगाढं तं नीयमानमुपलक्ष्य जनस्त्ववोचत् । चौरः किमेष सुकविः प्रभुरत्नहारी लोकोक्तिरेवमभवन्नगरे समस्ते ।। ६४ ॥ द्वारस्थितामथ निरीक्ष्य नरेन्द्रपुत्री नेत्रच्छटा प्रदधतीं स उवाच कान्ताम् । बालेऽधुना सुरवधूरमणाय यामि तन्नागमिष्यति पुनः कविबिह्लणस्त्वाम् ॥ ६५ ॥ नार्यो नरेन्द्रतनयागुरुवीक्षणार्थं कुर्वन्त्यतीव गमने सविलासलीलाम् । काचित्करेण दधती परिधानवस्त्रं काचिद्विमुञ्चति करादपि कञ्चुकीं च ।। ६६ ।। योषिन्निजोष्ठगतरक्तिमवीक्षणार्थ- मादर्शमेव दधती स्वकरेण चान्या । काप्यङ्गनार्धगुफितां कबरीं करेण पीनोन्नतस्तनतटे त्वरितां विधाय ।। ६७ ॥ एकं विधायजतुरङ्गविरञ्जितं च पादं द्वितीयमपरा परिहाय यान्ती । आनञ्च नेत्रमपरा न सुकज्जलेन तदर्शने गतमना हि ययौ गवाक्षम् ॥ ६८ ॥ तद्दर्शनाय विविधा द्विजराजयस्ता नानाविधाश्च विबुधा अपि बाहुजाश्च ।