पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बिहणकाव्यम् । काश्मीरकबिलणकविराजविरचित बिहणकाव्यम्। ध्यात्वा गणेशमखिलागमसारभूतं. श्रीशारदा सुरनमस्कृतपादपद्माम् । किंचित्स्वकीयमतिसंस्फुरितेन नव्यं काव्यं करोमि विदुषां सुखबोधनार्थम् ॥ १ ॥ स्वर्गावनी विमलमण्डलखण्डतुल्ये भूमण्डले महिलपत्तननामधेये बाराङ्गगुर्जरजनैः परिसेव्यमाने भोगी बभूव नृपतिः किल वीरसिंहः ॥ २ ॥ चत्वार एव निजधर्मरताः सदैव वर्णाश्च यस्य नगरे रजनीकरस्य । चञ्चद्गवाक्षपथि वीक्षणदृश्यवक्त्रै र्बिम्बोदयं प्रकटयन्ति दिनेऽपि नार्यः ॥ ३ ॥ यो वैरिवीरवरवारणदसिंहो विद्याविनोदविविधाभिरसः कलावान् । गाम्भीर्यधैर्यगुरुदानगुणैः स लोकं पाति स्म चीरनृपतिर्निजराजधर्मैः ॥ ४ ॥ इत्थं नृपेण रजनीकरवक्त्रबिम्बा राज्ञोऽप्यवन्तिनृपतेरतुलस्य पुत्री पाणिग्रहेण विधिना विहिता सुनारी मुख्या बभूव सकलासु वराङ्गनासु ।। ५ ।। कालक्रमेण विमला कमलासमाना चन्द्राननां नयननिर्जितपद्मपत्राम् । चन्द्रोदयेऽथ नृपतेः किल पट्टराज्ञी जज्ञे कलां शशिकलामिति सत्यनाम्नीम् ॥ ६ ॥