पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। चन्द्रो गत्वा वरगुरुवधूं हा कलङ्कातितोऽभू- त्कः कः कामप्रसरविवशो नैव निन्दां प्रपेदे ॥ ९५ ॥ रम्यं हर्म्यं च रम्यं सरसिजविपिनं तावदेवास्ति रम्यं वृन्दं स्त्रीणां च रम्यं हयगजशकटीचन्द्रचन्द्रादिकं च। उद्यानं चैव रम्यं विमलजलभृतं कूपवाप्यादि रम्यं यावच्चितेऽनवद्या ननु न निविशते हन्त वैराग्यवार्ता ॥ ९६ ॥ पापालाने निबद्धः कुमतिशतकृतैरन्दुकैर्मेति मत्तो लोभव्यालोलभृङ्गभ्रमणपरिलसत्तुङ्गकुम्भस्थलश्च । कामाख्येनैव यन्त्रा सकुतुकमनिशं प्रेर्यमाणः पुरस्थं ज्ञानाश्वत्थं निहन्ति प्रसभामह मनोवारणोऽज्ञानदन्तः ॥ ९७॥ भिक्षान्नं बत भक्षणाय सदनं शून्यं निवासाय च प्राप्त ं क्वापि सुजीर्णमेव वपुषो वस्त्रं पिधानाय च। पानायान्बु कमण्डुलौ क्षितितलं स्वापाय यस्यास्ति वै तेनैवोत्कटदुःखजन्तुकलितस्तीर्णॊ भवाम्भोनिधिः ।। ९८ ॥ पृथ्वीव्योमजलानिलानलगणैः क्लृप्तेन धात्रा स्वयं त्वङ्मांसक्षतजास्थिवीर्यविकृतिप्रायेण निर्द्वापरम् कायेन क्षणभङ्गुरेण यदि चेल्लभ्येत मोक्षस्तदा कि लब्धं न भवेजनैः कृततपःक्लेशैकलेशैः पुनः ॥ ९९ ।। यः कर्ता जगतोऽस्ति यं प्रणमति प्रायः समस्त जग- द्यैनैवाशु हता द्विषो बुधगणा यस्मै ददत्यर्हणाम् यस्मात्सिद्धिरनुत्तमास्ति न भवत्येनश्च यस्य स्मृते- यस्मिन्सन्ति जगन्ति मेऽस्तु विपुला भक्तिस्तु तस्मिन्हरौ ॥ १०० ।। शृङ्गारशतके मग्नं समाविश्य निजं मनः । जनार्दनेन विप्रेण वैराग्यशतकं कृतम् ॥ १०१ ॥ इति श्रीगोस्वामिजगन्नि वासात्मजगोस्वामिजनार्दनभट्टकृतं वैराग्यशतकं संपूर्णम् । १. एतन्नामकं शतकमेतत्कविविरचितमस्माभिः काव्यमालायामेकादशगुच्छके मुद्रापितम्.