पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पवनदूतकाव्यम् ।

वासालयं च तनुमृत्कमलं मदीयं
 कान्ता परापि नहि किं कमलालया ते ॥ ५० ॥
इत्थं ममास्तु वद मर्त्यनिगद्यमान
 त्रय्यन्तमन्त्रमुखरीकृतपादपीठ
राजाधिराज कृपया रघुवीर वर्ण-
 मालास्तवं त्वमवकर्णयितुं प्रसीद ॥ ५१ ॥

इति श्रीमद्रामभद्रदीक्षितविरचितं वर्णमालास्तोत्रं संपूर्णम् ।


श्रीमद्वादिचन्द्रनिर्मितं
पवनदूतकाव्यम् ।

राजा राज्ञीं खगपतिहतां नामतः श्रीसुतारां
 ध्यायंश्चित्ते जगति विदितां शीलसौभाग्यभाग्यैः
दूतं मोहात्पवनमहृदं प्राहिणोदश्चनेत्रः
 प्रायो मोहो भवति भविनां बोधशून्यत्वहेतुः ॥ १ ॥
भूम्याधारा जलगिरिनगाः साप्यधारि त्वया चे-
 त्किं तेऽसाध्यं भवति वद मे मित्र तेनार्थिभावम् ।
यातस्तस्मात्कथय कथितं योषितः क्षेममुच्चैः
 प्रायः शक्तः सकलविषयेऽशक्तिकानां हि याच्यः ॥ २ ॥
क्षित्यां नीरे हुतभुजि परव्योन्नि काले विशाले
 त्वं लोकानां प्रथममकथि प्राणसंत्राणतत्त्वम् ।
तस्माद्वातीधर चलगते तान्वियोगे हि नार्याः
 स्यान्नैवान्तर्विपुलकरुणः सत्त्वरक्षायपेक्षः ॥ ३ ॥
एते वृक्षाः सति नवधनेऽप्यत्र सर्वत्र मूमौ
 बोभूयन्ते न हि बहुफलास्त्वां विनेति प्रसिद्धिः ।
तस्मात्तांस्त्वं घनफलधनान्संप्रयच्छन्प्रकुर्याः
 प्रायः प्राप्तो भवनमतुलां पुष्टितामातनोति ॥ ४ ॥

१. वेदान्त.