पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। न भामायां नो वाग्रज इह न चात्मन्यपि यथा घनाथायां तस्यां द्रुपदतनयायं सुदति मे ॥ १८२ ।। तथा नेति । भामायां सत्यभामायाम् । अप्रजे बलदेवे । आत्मनि स्वदेहे ।। न मत्तोऽन्यस्तस्याः क्वचिदपि कदाचित्प्रियतमः सुतो भ्राता तातः पतिरपि महत्वास्पदमिह । अतस्तार्क्ष्यं स्मृत्वा झटिति विपदन्ताय सुदति प्रयास्ये तत्राहं न हि समुचितं कालहरणम् ।। १८३ ।। न मत्त इति । ममत्वास्पदं प्रेमास्पदम् । झटिति शीघ्रम् । 'द्द्राग्झटित्यञ्जसाहाय- इत्यमरः । कालहरणं विलम्बः॥ इतीदं तामुक्त्वा मितवचनमत्यन्ततरलः स्मृतायातं सद्यो गरुडमधिरुह्याथ समगात् तावदुष्टात्माग्रजवचनवश्यो द्रुपदजा- म्बराकर्षे कर्तुं सविधमुपयातोऽभवदथ ॥ १८४ ॥ इतीति । अम्बराकर्षं वस्त्राकर्षणाम् । तरलस्त्वरावान् ॥ तदालोक्य क्रोधानलकलितमूर्तिः प्रभुरसा- द्दृश्यो व्योमस्थः कलितकुतुकः कालकलनः । मदं दूरीकर्तुं सुबलतनयान्धात्मजरवि- प्रसूतानां कंचिद्विधिमतुलमन्यं रचितवान् ॥ १८५ ॥ तदेति । कालं कलयतीति कलनः । अधुना न मारणीया एते अग्रे सर्वराज्ञां वधस्य कर्तव्यत्वात् ॥ प्रकारान्तरमेवाह त्रिभिः स कर्तु भक्ताया द्रुपदतनयायाः प्रियमसा- यकर्तुं गान्धारीसुतहृदयदुवाञ्छितमहो। तुरीवेमाभावे पटशतविधानेऽपि च तथा- न्यथाकर्तुं शक्तः कुरुसदसि दृष्टी गगनगैः ॥ १८६ ।। स इति । अन्यथाकर्तुमिति कारणं विनापि कार्यमुत्पादयितुमित्यर्थः । कर्तुमकर्तुम- न्यथाकर्तुं समर्थ इति त्रितयं तदानीमेव संपादितम् ॥ सितैः पीतैः श्यामैर्हरितवसनैः स्वर्णरचना- विचित्रैः सच्चित्रोल्लिखनपरमाश्चर्यजनकैः ।