पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनोदूतम् । निजं पूर्णानन्दानुभवमपि संत्यज्य भगव- न्नितीत्थं सद्भक्तावनकरणदीक्षापरवशः । विधत्से रूपाणीत्यमरवर संचिन्त्य मनसा दयालो त्वां हित्वा कतममुपयामीह शरणम् ।। १७७ ।। निजमिति । स्वानन्दानुभवादपि ते परोपकार एवं मुख्य इति ॥ अये सर्वज्ञस्त्वं व्यसनमिदमल्पेतरमहो विदित्वापि स्वामिन्मयि कथमुदासोऽसि भगवन् । भृशार्ताहं रोदिम्यतिशयितदुःखाब्धिपतिता विता श्रीमन्नान्यस्त्वमिह मृदुभावं भज मयि ॥ १७८ ॥ अये इति । अविता रक्षकः ॥ इतीदं संदेशं सकलमवधार्थ प्रचलितुं समुद्युक्तं यावद्रुपदतनयाचित्तमभवत् । तदैवान्तर्यामी निखिलजगतामार्तिहरण: समुत्तस्थौ हित्वा शयनतलगां भीष्मकसुताम् ।। १७९ ॥ इतीति । स्पष्टम् ॥ अये नाथं स्वान्तं किंमिति तव चिन्ताकुलमिति प्रवृत्तिं पृष्टोऽसौ सुमशरजनन्या सचकितम् । सवन्नेत्राम्भोभिः स्खलितवचसाङ्गेन पुलका- चितेनासौ कृष्णाव्यसनमतिकष्टं समवदत् ।। १८० ॥ अये इति । सुमशरजनन्या रुक्मिण्या अयि प्रद्युम्नाम्ब द्रुपदतनया कर्णशकुनि- प्रधानेन प्रज्ञानयनतनयनाय सदसि । समानीता भीता दशवदननीता परवशा यथा सीता तद्वत्परिभवभुवं साब गमिता ॥ १८१ ।। अयोति । प्रद्युम्नाम्बेति । 'अम्बार्थनद्यो:-' इति ह्रस्वः ॥ तथा न प्रद्युम्ने त्वयि च मम वैदर्भि न तथा न देवक्यां प्रेमा भवति वसुदेवेऽपि न तथा ।