पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ काव्यमाला अयि क्षुद्रा रुद्रानुचरहृदयद्रावणविधि- प्रगल्भा भद्राय प्रभुवर हरिद्रामवसन । सुभद्रानन्धो नागरिंगणसमुद्राभिपतितां प्रवाधन्ते तन्द्रां परिहर महेन्द्रानुजविधौ ॥ १७२ ।। अधीति । क्षुद्राः अधमाः । पुनः किंभूताः। रुद्रानुचरेति । एतेषामतिदारुणं कर्म दृष्ट्वा तेषामपि हृदयं द्रवतीति भावः । भट्टैः कल्याणैराद्य पूर्ण । तन्द्रां आलस्यं परिहर । अगाधे दुःखाब्धौ बत निरवलम्बेऽमि पतिता भवाम्बोधेरुद्धारक कथमुदासोऽसि भगवन् विलम्ब नाकार्षीरघहर गजाजामिलकृते मदुद्धारे शक्तः किमसि न विभो दुष्टदलन ॥ १७३ ।। अगाभ इति । स्पष्टम् ॥ दुष्टदलनत्वमाह चतुर्भिः- महामीनः सत्यव्रतमवति कूर्मोऽपि च भवा- न्बहत्यद्रिं पृष्ठे धरति धरणीं शूकरवपुः । नृसिंहः प्रह्लादासुरजनकदारयति भो बलैः प्राज्यं राज्यं कपटबहुरूपो हरति च ।। १७४ ॥ महामीन इति । सत्यव्रतं राजानम् । अद्रिं मन्दराचलम् ।। सुदुर्दान्तं धर्माद्विमुखमखिलक्षोणितलगं निहन्ति क्षत्रं दाक्शिलपरशुभात्रोपकरणः दशग्रीवं कुम्भश्रवणामपि सुग्रीवरहनुम न्नलर्क्षाधीशामिप्रवरसुतयुक्तो विजयते ॥ १७५ ॥ सुदुर्दान्तमिति । कुम्भश्रवणः कुम्भकर्णः। ऋक्षाधीशो जाम्बवान् । अग्निप्रवरमुतो नीलनामा वानरः । विजयते । विपराभ्यां जेः' इत्यात्मनेपदम् ॥ स एव त्वं सम्प्रत्यपि हलधरभ्रातृसहितो बचोमार्गातीतान्यतिशयितझर्माणि भगवन् । बकीघातादीनि स्मृतिमुधगतान्यप्यघहरा- न्यहो लोके विख्यापयसि कमलाबल्लभ विभो ॥ १७६ ॥ स एवेति। संप्रत्यस्मिन्नवतारे ॥