पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। मणिः । मणिर्द्वयो रश्मिजातौ' इत्यमरे नीलमुक्तम् । वज्रं हीरकम् । एवं च पञ्चवर्णैमणिभिरिन्द्रायुधसाम्यम् ॥ यदीयान्यागाराण्युनिकरराहकान्तमणिमि- लसत्कुड्यान्यन्तःकरणजलमुश्चि प्रतिलदस् सदा कुर्वन्त्यम्भोघरसमयसुभ्रान्तिमतुला निशीथिन्यां चन्द्रोज्ज्वलकरसितायां प्रतिदिनम् ॥ १५३ ।। यदीयानीति । उडुनिकराणां तारकाणाम् । 'तारकाप्युड वा स्त्रियाम्' इत्यमरः । निकरः समूहस्तस्य राट् इन्दुः । चन्द्रकान्त इत्यर्थः ।। सुराधीशं जित्वा समिति संगणं यादवपति- र्धरायामानीतं प्रथितगुणयुक्तं सुस्तरुम् । निवासे सत्यायाः स्वयमथ समारोप्य जगता- मधीशस्तां धन्यामकृत रविकन्यापतिरसौ ॥ १५४ ॥ सुराधीशसिति । सत्यायाः सत्यभामायाः । समारोप्य रोपयित्वा । रविकन्या कालिन्दी। भ्रमद्धिः सौरभ्यादुपरि परितः षट्पदगणै- र्दधद्भिश्छत्रस्य श्रियमनुपमां निर्जरतरुः समस्तानां क्षोणीरुहवरगणानामवितथं प्रभुत्वं यन्नासौ कथयति निजं वान्त सततम् ॥ १५५ ।। भ्रमद्भिरिति । स्पष्टम् ॥ अथ तस्याः समग्रवर्णने सामर्थ्याभावमाह- यदीयं सौभाग्यं कथयितुमलं चेकिल भवे- दनन्तो द्रष्टुं वा यदि दशशताक्षः प्रभवति । निवस्तुं च श्रीशो यदुकुलसुधांशुः स भगवा- नवश्यं योग्यः सा कथय कथनीया कथमिव । १५६॥ यदीयमिति । अनन्तः शेषः । दशशताक्ष इन्द्रः ॥ सहलं सौधानां भवति किल यत्षोडशमितं सुयुक्तं चाप्यष्टोत्तरशतमितैर्दिव्यसदनैः