पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनोदूतम् । तमालः प्रसिद्धः, श्रीपर्णी वृक्षविशेषः, वरुणो चरणः सेतुः । आरेवतव्याधिघातकृतमालसुपर्णकाः' इत्यमरः, अक्षो विभीतकः, कदली रम्भा, शमी जम्बूश्च प्रसिद्धे,जम्मः जम्भीरा इति प्रसिद्धः, लकुचः "बहुहरः” इति भाषायाम् ।। पियालदुश्लेष्मातकबदरनारङ्गविषम- च्छदप्लक्षस्त्रंसिसुबतरुकदम्बादिललितैः । लताभिर्मालत्यादिभिरपि सुमौघातिललित- प्रवालाभिर्व्याप्ता तव नयनयोर्यास्वति पथि ॥ १४९ ।। पियालेति । राजादनं पियालः स्यात्' इत्यमरः । श्लेष्मातकः लहसोडा' इति भाषायान् । विषमच्छदः सप्तपर्णः, लक्षः पिपलपादुपः। तेन पूर्वश्लोके न पौनरस्त्यम् । तथा च हैम:--'लक्षोऽश्वत्थे जटिनि पक्षके' इति । पीलः प्रसिद्धः । सुबतरुर्विककृतः खुवावृक्षः । कदम्बः प्रसिद्धः । सुमानामोषः । 'प्रसूनं कुसुमं सुगम्' इत्यमरः । 'प्रवा- लोऽन्त्री किसलये वीणादण्डे च विद्रुमे' इति हैमः । लतामियोप्तेति संबन्धः॥ खकीय कौशल्यं त्रिभुवनविचित्रं प्रथयता सहस्राक्षप्राचीपतिधमदवासाँल्लघयता कृता दिव्योपायैर्विविधमणिसंयोगवटिता यदूत्तंसप्रीत्यै सुभग सुरतक्ष्णास्ति रचिता ॥ १५० ॥ स्वकीयमिति । सुरतक्ष्णा विश्वकर्मणा !! सभारामागारत्रिदशसदनब्रह्मणगृह- प्रपावापीकूपाङ्गणक्तितरथ्यापरिवृता । अगण्यैः पण्यौवैर्भूतविपणिवीथीपरिसरा- धरारत्नं रत्नाकरपरिवृता सा विजयते ॥ १५१ ॥ समेति । सभा द्यूतसमूहयोः शालायां च इति हैम: । आराम उपवनम् । विपणिः पण्यवीथिका ।। प्रविश्य त्वं तस्यां रुचिरकुरुविन्दाश्मगरुडो- पलखच्छाच्छाभामरपतिमणीवनशकलैः । विना वर्षाकाले त्रिदशपतिचापायुतमति दधत्यां दृष्टायां निजनयनयोः प्राप्नुहि फलम् ॥ १५२ ।। प्रविश्येति । 'कुरुविन्दस्तु पीते स्यादतिरक्तेऽपि' इति केशवः । गरुडोपलो हरि- न्मणिः । अतिशयेन अच्छा अच्छाच्छातिनिर्मला भा यस्याः । अमरपतिमणी इन्द्रनील-