पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला जना यत्रागारेष्यतिलसितसन्मङ्गलमह- असङ्गात्संजातैरविरतमृदङ्गानकभवैः प्रतिध्वानैरारादपि जलदगर्जाधिकरवै- मयूराणां नृत्योत्सवमनुभवन्ति प्रतिदिनम् ॥ १४५ ।। जना इति। अतिलसितसन्मङ्गलरूपा महा उत्सवाः । 'मह उद्धव उत्सवः' इत्यमरः । तेषां प्रसङ्गात् संजातैः ।। यदागारेष्वलिहविविधसौधोच्चशिखर- स्थितैः कुम्भैरन्तःशुषिरविलसद्दीपकलिकैः विनिद्राणां कान्ताविरह विधुराणामुड्डगण- भ्रमः प्रावृतम्यामतितिमिरमय्यां भवति च ॥ १४६ ॥ यदागारेश्चिति । विनिद्राणामिति । तत्र हेतुः-कान्ताविरहविधुराणामिति । प्रावृट्तम्याम् । रजनी यामिनी तमी' इत्यमरः । शुषिरं छिद्रम् ॥ सुरद्रोः सत्पुष्पावलिललितसद्गन्धसुभृत- नितान्तं कस्तूरीमृगमदमहामोदलसितैः । चतुर्भ्यो भागेभ्यो हृदय हरितां वायुभिरहो समायातः सार्था क्रियत इह सा गन्धवहता सुरद्रोरिति । कस्तूरीयुक्ता मृगाः कस्तूरीमृगास्तेषां मदः महानामोदस्तेन लतितैः हरितां दिशा चतुर्भ्यो भागेभ्यः प्रदेशेभ्यः समायातैर्वायुभिः सा गन्धवहता गन्धवहत्वं सार्था यथार्था क्रियते इत्यन्वयः। 'आशाश्च हरितश्च ताः' इत्यमरः । रोमभिर्विरलैः स्वल्पैर्युतः कस्तूरिकामदः' इति केशवः । हृदयेति संबोधनम् ।कस्तूरी स्यान्मृगमदः' इत्यमरः ॥ विचित्रैरुद्यानस्तिलकसहकारद्रुपनसा- लसप्लक्षद्राक्षाबकुलसरलेन्द्रद्रुमधुकैः । तमालश्रीपीवरणकृतमालाक्षकदली- शमौजम्बूजम्भकमुकलकुचाशोकसहितैः ॥ १४८ ॥ विचित्रैरिति । उद्यानैर्व्याप्तेति द्वितीयश्लोकेनान्वयः । कीदृशैरुद्यानैः । तिलकादिसहितैः । तिलकः क्षुरकः वृक्षविशेषः, सहकारः आम्रः, पनसः कण्टकीफलः, अनसो बन्धूकंः प्लक्षो बटः, द्राक्षा मृद्रीका, बकुलः केसरः, पूतद्रुः सरलः पूतिकाष्ठम्' इत्यमरः। इन्द्रद्रुः ककुभोऽर्जुनः । मधुकः प्रसिद्धः । मधूको मधुकोऽपि च' इति द्विरूपकोशः । .