पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। ततो गत्वा सोऽन्तःपुरभवनमेनामृतुमती बलाद्धृत्वा केशेष्वहह शठबुद्धिपसुतः । सनाथामप्यारादितरजनपतीमिव सभा- मनैषीत्यार्थानां पुरत इह हा दैवहतकः ॥ १२७ ।। तत इति स्पष्ट ॥ तथा नीतां कृष्णाभरिकरगतासेकवसनां रजोध्वस्तां वीक्ष्य क्षितिपतिसभा साश्रुनयना । न यातुं न स्थातुं समशकदथो किंचिदपि वा- भिधातुं श्रोतुं वा हृदयकृतधिक्कारबचना ॥ १२८ ।। तथेति । हृदये कृत धिक्कारवचनं यया । दुर्योधनभयादित्यर्थः । कर्णस्य द्रौपदीं प्रति वचनमाह द्वाभ्याम्--- अथावादीत्कर्णः किमिति न करोष्युन्नतमिदं मुखाब्जं किं लज्जास्पदमिह भवत्याः कथय नः । तदैवेयं लज्जा द्रुपदतनयेऽद्धा परिहृता वृता यल्लोभेन ध्रुवमिह तदा पञ्च पतयः ॥ १२९ ॥ अथेति । स्पष्टम् । इदानीं गान्धारीतनयवशगासीप्सितमहो समृद्धं ते कृष्णे परिहर पतीन्दीनमनसः । जितासि द्यूतेऽस्मिन्सुमुखि धृतराष्ट्रस्य धरणी- पतेः पुत्रेणाद्य क्षममिह तदाज्ञानुसरणम् ॥ १३०. इदानीमिति । स्पष्टम् ।। ततोऽसौ दुष्टात्मा निजमनुजमाहातिशठधी- रिमां दुष्टां पापां विगतवसनामाशु कुरु भोः परीहासस्यैव फलमनुभवत्वाशु कुटिला पतीनां दासत्वं मम गतवतामद्य पुरतः ।। १३१ ।। तत इति । स्पष्टम् । अथासौ दुःखार्ता द्रुपदतनया वीक्ष्य दुहिता- परित्रातुं योग्यानपि समयबद्धान्विधिवशात्