पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कुलाङ्गारे पापे त्वयि शकुनिसापेक्षचरिते निबद्धप्रेमायं भवतु फलमाक्पातकतरोः ॥ ११७ ।। पुरैवेति । अस्मै राज्ञे धृतराष्ट्राय मे मया असकृत् बहुवारं किमुक्तं तदेवाह-अस्मि- न्द्यूते सुतानां शतस्याप्यवश्यं विनाशः । भविष्यतीति शेषः । दुर्योधनं प्रत्याह कुलाद्वारे इत्यादि। एतैः सह विरोधे महदनिष्टमित्याह-- दिशां जेता जिष्णुर्हतबकहिडिम्बादिसुभट- प्रसिद्धव्यापारप्रथिततरकीतिः पवनजः । यमौ नित्यं शत्रुक्षपणकरणे बद्धनियमौ न जानीषे किं रे अदिह विषमश्चासि सहसा ॥ ११८ ।। दिशामिति । जिष्णुरर्जुनः । पवनजो भीमः ॥ तिष्ठन्तु भीमादयः, युधिष्ठिरकोध एव त्वा भस्सीकरिष्यतीत्याह--- न यावत्या धर्माचरणशरणः साधुचरितः क्षमी दान्तो मिथ्यावचनरहितो लोकमहितः पुरा पश्यत्युग्रज्वलनकणमुन्दारुणदृशा परं तावत्क्रूर शमनवदनं पश्यसि न रे ॥ ११९ ।। न यावदिति । पुरा पश्यति । द्रक्ष्यतीत्यर्थः । चावत्पुरा-'इति पुरायोगे लङर्थे लट् ॥ इति क्षिप्तोऽत्यन्तं विदुरवबचनैरप्यनुसर- न्स कर्णादीन्दुष्टान्मनसि न च खिन्नोऽभवदसौ अथ प्रातीकाभ्यां द्रुपदतनयायाः स्वभवन- स्थिताया ह्वानार्थं ह्यदिशदवनीपालतनयः ॥ १२० ।। इतीति । हानाहानं तदर्थम् । हूतिराकारमाह्वान' इत्यमरः । प्रातीकाम्य इति द्यूतस्याभिधानम् ॥ स दूतस्तद्राज्ञो वचनसमकाल द्रुपदजा- सकाशं गत्वोच्चैरवददर्थ दुर्योधनवचः । जिला द्यूते त्वामाहयति धृतराष्ट्रस्य तनयो नियोक्तुं त्वां दासी भवसि पणिता द्यूतसदने ॥ १२१ ॥ स दूत इति । उच्चैरिति । अन्तःपुरे प्रवेष्टुमशक्यत्वादुच्चैरित्युक्तम् ॥