।
विहायैतानन्ये क्षितिनिहतनेत्रा विमनसः
स्रवन्नेत्राम्भोभिर्विगिति परमं दुःखमभजन् ।। ११२ ॥
|
पराजैषीदिति । अम्बिकापुत्रो धृतराष्ट्रः ।।
अथासौ संप्रेक्ष्य क्षितितलसमालोकनपरा-
ञ्जितान्द्यूते पार्थानवितनयमूचे कुरुपतिः ।
जितेयं दासीत्वं भजतु मम कृष्णा किमधुना
विलम्बः कार्येऽस्मिन्क्रियत इह सागच्छतु सदः ।। ११३ ।।
|
अथेति । कृष्णा द्रौपदी । इह कार्ये किमधुना विलम्बः क्रियते। आगच्छतु आयातु।
अवाच्यं तद्दुर्योधनकथितमाकर्ण्य विदुरः
समुत्थाय क्रोधान्निखिलमनुजे शृण्वति सति ।
जगादोच्चैः क्रोधाद्वचनमिदमालोक्य च पुनः
समुद्भूतामन्दप्रतिषभरसंरक्तनयनः ॥ ११४ ॥
|
अचाच्यमिति । निखिलमनुज इति जात्यभिप्रायमेकवचनम् । प्रतिघः कोपः ।
कोपः क्रोधामर्षरोषप्रतिघा' इत्यमरः ॥
विदुरवाक्य पञ्चमिराह--
अरे मन्द प्रज्ञानयनसुत किं ते व्यवसितं
न जानीषे शीर्षे निवसित इहाशीविषधरान् ।
किमर्थं कोपेनाकुलितमनसः पाण्डुतनया-
न्वृणीषे मन्दात्मन्मरणविषये स्वस्य सहसा ॥ ११५
|
॥
अरे इति । स्पष्टम् ॥
दासीत्वं प्राप्ता द्रुपदधरणीपालतनया
यतो न्यस्ता राजा ध्रुवनियमनीशेन कुसते ।
कृतं ह्येतद्द्यूतं तव मरणवीजं कलय भो
{{bold|समासन्ने मृत्यौ भवति विपरीता किल मतिः ।। ११६ ॥
|
नेति ।}} पूर्वं स्वस्य द्यूते विजितत्वादनीशत्वम् ।।
पुरैवास्मै राज्ञे कथितमसंकृन्मे ध्रुवमहो
विनाशो द्यूतेऽसिस्तव सुतशतस्यापि नियतः ।
|