पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

समाहूय व्यासप्रभृतिमुनिवर्यानथ शुभे
मुहूर्ते दीक्षाया ग्रहणमिह कर्तुं कुरु मनः ।। ९७ ॥

क्रियन्तामिति | संभारा उपकरणानि । वसूनां द्रव्याणां भाराः ॥

हिरण्यं सन्मुक्ता विविधमणयोऽलंकृतिशता-
न्यनर्घा रत्नौघा विविधवसनान्यननिचयाः ।
गजाश्वं गावश्च प्रचुरपयसो वत्ससहिता
द्विजेभ्यो देयाः स्युः ऋतुसदसि तुष्टेन भवता ॥ ९८ ॥

हिरण्यमिति । गजाश्वम् । सेनाङ्गत्वादेकवद्भावः । ऋतुसदसि यज्ञशालायाम् ॥

पितुस्तद्वाक्यं स श्रुतिपथमथानीय पुनर-
प्यवोचद्भो राजशकुनिरिह किंचित्कथयति
समग्रां द्तेयूतेन श्रियमपहामि ध्रुवमहं
छलात्कौन्तेयानामिति वितर तत्संमतिमिह ॥ ९९ ।।

पितुरिति । स्पष्टम् ॥ न चात्र विदुरः प्रष्टव्य इत्याह-

यदि त्वं कार्येऽस्मिन्विदुरमनुष्टच्छस्यनुपदं
निषेद्धा निश्चित्य व्यथितहृदसौ पाण्डवकृते
तदा मृत्युर्मे स्याच्छरणमिह राजस्वमपि च
ध्रुवं तुष्टो जीया विदुरसहितो हायनशतम् ।। १०० ।।

यदीति । अनुपदं तत्कालम् । निषेद्धा निषेधं करिष्यति ॥ राज्ञ उत्तेजनार्थ पुनरपि खदुःखमेवाह---

यदा द्वारभ्रान्त्या मणिरचितभित्तावधिविश-
न्नथाघातं प्राप्तः पतित: इह तस्मिन्नवसरे।
भृशं संशोचन्तौ निभृतहसितौ दस्रतनयौ
गृहीत्वा हस्ते मां सृतिमदिशता तद्दहति हृत् ॥ १०१ ॥

यदेति । आघातं प्रहारम् ।सृति मार्गम् । पन्थानः पदवी सृतिः' इत्यमरः । दस्रतनयौ नकुलसहदेवौ । अथ धृतराष्ट्रस्तनिबन्धात्सर्वमङ्गीकृतवानित्याह----

अथैतन्निर्बन्धं गुरुतरमवेत्य क्षितिपतिः
समां द्यूतस्यार्हां रचयितुमनुज्ञामथ ददौ ।