पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला 'अर्धपात्रे क्षिपेद्दूर्वातिलदर्भाग्रसर्षपान् इत्युक्तप्रकारमर्थमाह-

सगन्धं सिद्धार्थाक्षतयवसुदूर्वाङ्कुशतिलैः
सुयुक्तं पुष्पाढ्यं शिरसि निदधेऽर्घं नरपतिः
सजातीकंकोलं सुरकुसुमसंयुक्तममलं
जलं राज्ञा तस्याचमनविधये दत्तमभवत् ।। ७९ ॥

सगन्धमिति। 'लवङ्गजातीककोलं निक्षिप्याचमेत' इत्युक्तप्रकारमाचमनमाह- सजातीति । जातिः स्त्री गोत्रजन्मनोः । जातीफले च मालत्याम् इति हैम: । कङ्कोलकं कोशफलम्' इत्यमरः । शीतलचीनी इति भाषायाम् । सुरकुसुमं लवङ्गम् । लवङ्गं देवकुसुमम्' इत्यमरः ॥

ततस्तं स्नानाद्यैर्विविधमणिभूषासुवचनैः
सुगन्धैर्माल्यैरप्यतिसहितकृद्भक्ष्यनिचयैः
समाराध्य प्रेम्णा प्रणयभरबद्धाञ्जलिपुटः
सपत्नीकः कुन्तीसुत इह कृतार्थः समभवत् ।। ८० ॥

तत इति । स्पष्टम् ॥

अभूदुच्चैर्घोषो निखिलमनुजानां जय विभो
चिरं जीवेत्याम्रेडित इह महाहर्षजनकः
फलं कोपप्रीत्योः सममिह विभक्तं भगवता
तदा चैद्ये पार्थेऽपि च सकललोकैकविदितम् ॥ ८१ ॥

अभूदिति । आम्रेडितं जय जय जीव जीवेत्येवरूपम् । 'आम्रेडितं द्विस्त्रिरुक्तम् इत्यमरः॥

अथ द्वाभ्यां खस्य दुःखकारणमाह-
इदं सर्व तिष्ठत्वपरमिदमेकं मम हृदि
प्रविष्टं शल्यं यत्कथमिव पुनर्निःसरति तत् ।
सभां द्रष्टुं याते मयि जलनिमग्ने भ्रमवशा-
द्विहस्योच्चैर्भीमो वसनयुगलं यत्किल ददौ ।। ८२ ॥

इदं सर्वमिति । स्पष्टम् ॥

प्रतीहारभ्रान्त्या मम हृतिरभूद्भित्तिसहिते
प्रदेशेऽथ द्वारि प्रचुरतरभित्तिभ्रमवशात् ।