गङ्गा. पुनाति रघुपुंगवः यत्प्रसूता
यद्रेणुना च युपुचे यमिनः कलत्रम् ।
तस्य त्वदङ्घिकमलस्य निषेवया स्यां
पूतो यथा पुनरघेऽपि तथा प्रसीद ॥ १८ ॥
घण्टाघनं घनितकोटिशरासनं ते
लुण्टाकमस्तु विपदां मम लोकनाथ
जिह्वालतां वहति यद्भुजगो रिपूणा-
मुष्णैरसृग्भिरुदरंभरिणा शरेण ।। १९ ।।
प्राङस्यबाङसि परेश तथासि तिर्यङ्
ब्रूमः किमन्यदखिला अपि जन्तवोऽसि ।
एकक्रमेऽपि कति वा भुवि न म्रियन्ते.
मन्दस्य राघव सहख ममापरावान् ॥ २० ॥
चण्डानिलव्यतिकरक्षुभिताम्दुवाह-
दम्भोलिपातमिव दारुणमन्तकालम् ।
स्मृत्वापि संभविनमुद्विजते न धन्यो
लब्ध्वा शरण्यमनरण्यकुलेश्वर त्वाम् ॥ २१ ॥
छिन्नं निजं कुहनया मृगरूपभाजो
नक्तंचरस्य न किमाविरकारि रूपम्
त्वत्पत्रिणापि रघुवीर ममाद्य माया-
गूढम्वरूपविवृतौ तव कः प्रयासः ॥ २२ ॥
जन्तोः किल त्वदभिषा मणिकर्णिकायां
कर्णे जपन्हरति कश्चन पञ्चकोशान्
इत्यामनन्ति रधुवीर ततो भवन्तं
राजाधिराज इति विश्वसिमः कथं वा ॥ २३ ।।
झङ्कारिभृङ्गकमलोपमितः पदं ते
चारुस्तव प्रणयचारणकिन्नरोधम् ।
१ कपटेन, राक्षसंस्य मारीचस्य