पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । गोपस्त्रियः प्रदर्श्य स्तनयुगलं तन्तुजालकृतकञ्चुक्याः । कन्दुकमिममर्पय मे हरिणेत्युक्ते जहास नन्दवधूः ।। ८३ !! गौरववशतो बालामधिकतरं पर्यचरदार्या । उद्भिन्नरोमलतिकाफलायितस्तनमुकुलयुग्माम् ॥ ८४ ॥ गङ्गातरङ्गशीतलपवनस्पर्शेन भिन्नगात्राहम् । कथमुपयामि नमस्यापुष्पाहरणाय गुरुजननियुक्ता ।। ८५ ।। गः कार्तिकेयशङ्कातङ्कितहृदयोऽङ्कमारूढः । स्ववदनशुण्डादण्डाकलितशिवास्तनयुगो जयति ॥ ८६ ॥ घनतरघनाधनानामचिरद्युतिभीषिताखिलजनानाम् । आलोक्य यातृयुगलं सुखितैका दुःखितापरा चित्रम् ।। ८७ ।। घातुकमदनशराहतिजर्जरिताङ्गी विचेतनापि वधूः । आलीमुख1निसृतप्रियनामश्रवणेन सोज्जीवा ॥ ८८ ॥ घुर्घुरति वेत्रवत्यास्तीरोपवनेषु मण्डलकः । सखि वद कथमुपयास्ये सलिलाय नियोजयत्यार्या ।। ८९ ॥ घूर्णितनयनो मधुना कुलाङ्गनाशीलखण्डनोद्युक्तः । आलिङ्गति पर्यङ्कस्थितमार्जारीं तदीयनखदूनोऽपि ।। ९० ॥ घोषं नवजलदानां श्रुत्वा विरहाकुला तन्वी । निश्वासच्छलतो ननु पवनास्त्रं तत्र निक्षिपति ॥ ९१ ।। 'घण्टाघोषं श्रुत्वा शिवगानश्रवणभक्तिमती । 'पतितं स्तनांशुकमपि न वेद तत्संमुखस्थापि ।। ९२ ।। ङाराधनाभिसक्ता प्रतिदिनमेकाकिनी यान्ती। आर्याधिसायमनिशं खिन्नशरीरा समायाति ॥ ९३ ॥ १. 'विस्मृतवति' इति साधु,