पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारकलिकात्रिशती। खुरधातदलितपृथ्वीरजोभिरभितोऽम्बरे व्याप्ते । पशुभिः सायं यूनोः कयोश्चिदालिङ्गनं जयति ॥ ७२ ॥ खेदाय मे भवति तद्गोपायसि यदम्बुजाक्षि महिमानम् । यावकपदाङ्किता ते कथयति भालस्थली सुकृतम् ॥ ७३ ॥ खञ्जननयने मानं मुञ्च बधान प्रिये प्रीतिम् । प्राप्तैव विजयदशमी यास्यन्ति न वासरा याताः ॥ ७४ ।। गजमदसुगन्धिशाल्मलितरूमालोक्य प्रगे व्याधी । पर्यचरत्पतिमधिकं गुजाभूषाकुरूपमपि ॥ ७५ ।। गायत्रीजपपूतं मम मुखमुच्छिष्टमातेने । प्रातरिति वदति दयिते हसत्सु लोकेषु नम्रितास्याभूत् ॥ ७६ ॥ गिरिकन्याशंकरयोस्तस्मै प्रेम्णे नमस्कुर्मः । यत्र कटाक्षक्षेपे जयति समं नित्यमभिलाषः ।। ७७ ॥ गीष्पतिदारविहारी चन्द्रः स कलङ्कतामाप्तः । स पितामहः स्वकन्यागामी तत्सत्य आभाणः ॥ ७८ ॥ गुणपूर्णे किं मानैर्वर्षाः प्रतियान्तु धर्मसमयेऽपि । सुरभिः शरच शिशिरो हेमन्तो जायतां नित्यम् ॥ ७९ ॥ गूढव्यञ्जद्विनयप्रवृत्तमदनगुलिकाकृति1स्तन्व्या । यदि मोहिता युवानः पूर्णकुचाग्रे तु '2किं कर्ता ॥ ८० ॥ गेहक्रियासु गुरुजननियोजिता संभ्रमत्वरिता । वसनाञ्चलसंवरणव्याजेनादर्शयत्स्वाङ्गम् ॥ ८१ ॥ गैरिकमण्डितगण्डः सखि यातु करी विधेहि दयाम् । विरचितपत्रालिकुचे पुरतो मा याहि मा याहि ॥ ८२ ॥ १. 'कृतौ तन्व्याः' इति युक्तम्, २. का वार्ता