पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९२ काव्यमाला । कुतुकं विलोकयिष्ये मिषतो दधिविक्रयस्याहम् । संभ्रमविस्मृतकञ्चुकपरिधाना पुलककञ्चुकीं दधे ।। ६१ ॥ कूर्पासकमाश्लेत्रे काञ्चीं नीवीविमोक्षे च । याचितवती नयनयोश्चुम्बनसमये विमुग्धाभूत् ।। ६२ ।। केतकरजसा व्याप्टतमभवद्यूनोः कपोलतलम् । पाण्डरितमाननमभूचित्रं नलिनाभनयनायाः ॥ ६३ ॥ कैदारिकेऽत्र मार्गः किं वामे दक्षिणेऽथवेत्युक्ते । निकटोपवनावानं प्रदर्श्य सा नम्रितास्यासीत् ।। ६४ ॥ कोपकषायितनयना नयनाञ्चलसत्कृशानुन्ने । पादपतितेऽपि नीवीमाकर्षति सस्मिता सखीमैक्षत् ॥ ६५ ॥ कौतुकदर्शनलालसचित्तेन स्वगृहरक्षणे गुरुजनेन । विनियुक्तापि मृगाक्षी पुलकितवपुरास सा नितराम् ।। ६६ ॥ कंदर्पाकुलचित्ता गुरुजनपुरतो नवोढा सा । लज्जामन्थरतारकमालोक्य पतिं निशश्वास ॥ ६७ ।। कः किल कथ्यः कुतुकं नागेशस्तल्पितो येन । तल्पीकृतोऽध सोऽपि व्रजनार्या मल्लिकाकुञ्जे ॥ ६८ ॥ खर्जुरीरानयितुं नियोजिता बत गतैकाहम् । आरोहणावरोहणसमये मम खण्डितो देहः ॥ ६९ ।। खाण्डवमधुरिमलुब्धो भाण्डपतद्धारयानुलिप्ताङ्गः । मार्जनमिषेण लमा धिक्कार्या सा विभीषयति लोकम् ॥ ७० ॥ खिद्यतु मां गुरुलोकः कथमेनां वार्षिकीं यात्राम् । त्यक्तुं समुत्सहेऽहं यत्र स्त्रीपुंससंमर्दः ।। ७१ ॥ १. 'नयनान्तकृशानुनानुन्ने' इति युक्तं प्रतिभाति.