पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारकलिकात्रिशती। औपम्यरहितमेतद्वदनं कथमिन्दुसदृशमद्याभूत् । इत्यालप्य सृगाक्षी साक्षीभूतं निनिन्द कन्दर्पम् ॥ ४९ ॥ औत्सुक्यादुच्चलितं मानेन पुनः स्थिरीकृतं हृदयम् । प्रियसदनं प्रति गन्तुं स्थातुं दोलायितं तस्याः ॥ ५० ॥ औदनमन्यत्रैकं चषकं परिवेषयन्ती सा। प्राधुणिकस्य तु पात्रे विहसन्ती द्वित्यमर्पयामास ।। ५१ ।। अञ्जनमलिनाधरपुटमवेक्ष्य दयितं कुरङ्गाक्षी । रोषकषायितनयना तत्संमुखमादधे मुकुरम् !! ५२ ।। अङ्के निवेश्य करकृतं चपकं चुबुक उन्नते तस्याः । आकारयति गुरुजनमपि तत्र च हुंकृतिः समं जयति ॥ ५३ ।। अम्बरमद्भुतमीदृशमेकं मम दीयतां सुभगे । श्रुत्वेति स्तब्धतनुः स पुनः कार्य विसस्मार ॥ ५४ ॥ अन्तः प्रेमलचित्तां मुग्धामनुकूलयति मयि रसेन । श्रवणोत्पलसंसर्पी जातो मधुकृन्निसृष्टार्थः ॥ ५५ ॥ अः कमलजाकराचस्पर्शसमुद्भूतमनसिजो जयति । रत्युत्कण्ठाजागरविकसितनाभीसरोजन्मा ।। ५६ ।। कलिका मधुकरपङ्क्तिं मदयत्यन्तस्थसौरभापि मालत्याः । रत्युत्सुकयोः खञ्जनयूनोः सनिधिर्धरा स्फुटीभवति ।। ५७ ।। कामप्रेतावेशग्रस्तः स खलु श्मशानवास्तव्यः । अर्धाङ्गे धृतदारो वन्दितचन्द्रः स्मरारिरपि ॥ ५८ ॥ कियदभिगोपयसि त्वं कितव परप्रणयिनीप्राण । कस्तूरिकापरिमलः कथमथ शक्यो वरीतुमयम् ।। ५९ ।। कीर्तनसमये शौरेर्वन्दत्सु जनेषु हरिदासम् । न चलति पदात्पदमपि पतिता तत्पादयोरार्या ।। ६० ।।