पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अयं दृष्टान्तोऽत्र स्फुटकरणतोऽप्यभ्यसनतः शुकः श्लोकान्वक्तुं प्रभवति न काकः क्वचिदपि ॥ ९७ ।। धनमपि परदत्तं दुःखमौचित्यमाजां भवति हृदि तदेवानन्दकारीतरेषाम् । मलयजरसबिन्दुर्वर्धते न प्रसन्नं नयति च रसवाहादेवमत्यन्तमत्र !! ९८ ॥ कालक्रमेण परिणामवशादनव्या भावा भवन्ति खलु पूर्वमतीव तुच्छाः । मुक्तामणिर्जलदतोयकणोऽप्यणीया- न्संपद्यते च चिरकीचकरन्ध्रमध्ये ॥ ९९ ॥ इयं कुसुमदेवेन कविनैकेन निर्मिता । दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥ १०० ॥ इति श्रीकुसुमदेवविरचितं दृष्टान्तकलिकाशतकं समाप्तम् ।

श्रीकामराजदीक्षित विरचिता शृङ्गारकलिकात्रिशती। लक्ष्मीविहृतविलासावलोकितानन्दितस्वान्तः । पश्यति गुरौ विधातरि लज्जानतकन्धरो हरिर्जयति ॥ १ ॥ प्रतिपादयति समुद्रे लक्ष्मीमन्तःपटे धृते गुरुबुधाभ्याम् । तद्वदनदर्शनोत्कः प्रपदालम्बी हरिर्जयति ।। २ ।। १. श्रीकामराजदीक्षितोऽयमक्षरगुम्फार्यानिशत्योः कर्तुः श्रीसामराजदीक्षितस्य सुत आसीत् । कामराजदीक्षितकृतौ द्वावेव ग्रन्थावुपलभ्यते (१) शृङ्गारकलिका- त्रिशतीनामको मुक्तकग्रन्थः, (२) काव्येन्दुप्रकाशाख्योऽलंकारग्रन्थश्चेति.