पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दृष्टान्तकलिकाशतकम् । सति शीले गुणा भान्ति पुंसां शौर्यादयो यथा । यौवने सदलंकाराः शोभां बिभ्रति सुभ्रुवः ॥ १४ ॥ जडः प्रभवति प्रायो दुःखं बिभ्रति साधवः । शीतांशावुदिते पद्म संकोचं याति वारिणि ।। १५ ॥ गुणेन स्पृहणीयः स्यान्न रूपेण युतो नरः । सौगन्ध्यहीनं नादेयं पुष्पं कान्तमपि क्श्चित् ।। १६ ॥ कश्चित्कस्यचिदेव स्यात्सुहृद्विश्रम्भभाजनम् । पद्म विकासयत्यर्कः संकोचयति कैरवम् ॥ १७ ॥ ईश्वराः पिशुनाञ्शश्वत्पुष्णन्तीति किमद्भुतम् । प्रायो निधय एवाहीन्द्विजिह्वान्दधतेतराम् ॥ १८ ॥ संपद्यास्ते परैः साकं विपदि स्वजनैर्जडः । जृम्भतेऽम्भोरुहं भृङ्गैः शुष्यत्युदकशैबलेः ॥ १९ ॥ नीचावमानमलिनां यो भुते संपदं पुमान् । लशुनाक्तां स कपूरचर्चा वितनुते तनौ ॥ २० ॥ व्यसनानन्तरं सौख्यं ह्यल्पमप्यधिकं भवेत् । काषायरसमाखाद्य स्वाद्वतीवाम्बु विद्यते ॥ २१ ॥ गुणानामन्तरं प्रायस्तज्ज्ञो जानाति नेतरः । मालतीमल्लिकामोद घ्राणं वेत्ति न लोचनम् ॥ २२ ॥ प्रभूतवयसः पुंसो धियः पाकः प्रवर्तते । जीर्णस्य चन्दनतरोरामोद उपजायते ॥ २३ ॥ कामाय स्पृह्यत्यात्मा संयतोऽ मनीपिणः । वीथीनियमितोऽप्युक्षा शष्पमासाद्य धावति ॥ २४ ॥ धनागमेऽधिकं पुंसां लोभमभ्येति मानसम् । निदाधकाले प्रालेयः प्रायः शैत्यं वहत्यलम् ॥ २५ ॥