पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। साधुरेव प्रवीणः स्यात्सद्गुणामृतवर्णने । नवचूताङ्कुराखादकुशलः कोकिलः किल ॥२॥ दुर्जनो दूषयत्येव सतां गुणगणं क्षणात् । मलिनीकुरुते धूमः सर्वथा विमलाम्बरम् ॥ ३ ॥ यथा दोषो विभात्यस्य जनस्य न तथा गुणः । प्रायः कलङ्क एवेन्दोः प्रस्फुटो न प्रसन्नता ॥ ४॥ विवेक एव व्यसनं पुंसां क्षपयितुं क्षमः । अपहर्तुं समर्थोऽसौ रविरेव निशातमः ॥ ५॥ प्रायः सन्त्युपदेशार्हा धीमन्तो न जडाशयाः । तिलाः कुसुमसौगन्ध्यवाहिनो न यवाः कचित् ॥ ६ ॥ चिन्त्यते नय एवादावमन्दं समुपेप्सुभिः । विनम्य पूर्वं सिंहोऽपि हन्ति हस्तिनमोजसा ॥ ७ ॥ संस्थितस्य गुणोत्कर्षः प्रायः प्रस्फुरति स्फुटम् । दग्धस्यागरुखण्डस्य स्फारीभवति सौरभम् ॥ ८ ॥ मनखिहृदयं धत्ते रोषेणैव प्रसन्नताम् । भस्मना ज्वलदङ्गारः प्रसादं लभतेतराम् ॥ ९ ॥ उत्तमः क्लेशविक्षोभं क्षमः सोढुं नहीतरः । मणिरेव महाशाणधर्षणं न तु मृत्कणः ॥ १० ॥ खजातीयं विना वैरी न जय्यः स्यात्कदाचन । विना वज्रमणिं मुक्तामणिर्भेद्यः कथं भवेत् ॥ ११ ॥ सज्जना एव साधूनां प्रथयन्ति गुणोत्करम् । पुष्पाणां सौरमं प्रायस्तनुते दिक्षु मारुतः ॥ १२ ॥ उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् । प्रायः कूपस्तृषां हन्ति सततं न तु वारिधिः ॥ १३ ॥