पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला गलन्मदाः केचिदमी मतङ्गा विदूरतः सैनिकतः प्रयान्ति । दन्ताहतानेकविशालवृक्षशाखासमालंकृतभूमिभागाः ।। ६८ !! गच्छन्ति गर्जन्ति सहस्रशोऽस्य धावन्ति सर्वत्र विना विचारन् । दन्तैः समुत्पाट्य तरं समग्रं शुण्डाभिवातालमेघमालाः ॥ ६९ ॥ महागजाः प्रौढकृतप्रहारा विशृखला भीमतरा बभूवुः । धूली भिरासादितभूषणाङ्गा दन्ताभिधाताहतपर्वताश्च !! ७० ।। महीभुजो वीरसुदर्शनस्य समन्दराजन्यपवित्रकीर्तेः । सर्वाणि कार्याणि समस्तकालं विशोभमानानि गुरोः प्रसादात् ॥७॥ लक्षं हया यस्य गृहे वसन्ति कथं स वाच्यो लघुभिर्वचोभिः । कशाभिषातो न कदापि तेषामङ्गे गिरीर्लङ्घनशङ्कैयव ।। ७२ ॥ विराजते चञ्चलवाजिराजी सुवर्णमाला मणिभूषिताश्च । विशुद्धनासनपृष्ठलग्नवलृप्तचारोच्छितकन्धराश्च ।। ७३ ।। महाजवा हस्वविशुद्धकर्णा मृगानुगाः पक्षधरा इवोर्व्याम् । वाहा विशिष्टाः कृतचारुचेष्टाः सदश्ववाहैर्भिशिक्षिताश्च ।। ७४ ॥ नृत्यन्ति धावन्ति मनोरथज्ञाः समीरणार हि मूर्तिमन्तः । वराश्वबाहोर्ध्वकृतोरुबाहुसंभावनासङ्घित कन्दराश्च ।। ७५ ।। हयं समारुह्य नृपाधिराजः सुदर्शनोऽयं नकुलावतारः । गतागतानेकविधप्रकारविचारसंभारमचाकरोत्सः ॥ ७६॥ मृगाननेकान्मृगयासु हत्वा शस्त्रेण चास्त्रेण करस्थितेन । स हापयत्येव करस्थितेन श्येनादिना पक्षिवराणि भूयः ॥ ७७ ।। पुनः प्रतस्थे मृगयानुबन्धी स बन्धुवर्गैर्वरवाजिसंस्थैः । पदातिवगैर्गणनातिरिक्तैरितस्ततः शीघ्रतरप्रयाणैः ।। ७८ ॥ शार्दूलसंघान्ददृशेऽथ भूप उपत्यकायां यदुवंशवीरः । ततो विशङ्कः पुरुषावतंसो जातप्रहर्षः कृतसंनिधानः ॥ ७९ ॥