पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अर्धनारीश्वरस्तोत्रम् । प्रौढाः कञ्चुकिनो जरद्व्रिश्वरः कुन्ज्स्तुषार्द्युति- र्नित्याप्तोऽपि बहिष्कृतः परिकरः सोऽयं समस्तोऽप्यहो । अर्धाद्यद्वसतीकृताद्भगवता चारित्रचर्याविदा सा भिद्याद्दुरितं चराचरगुरोरन्तःपुरं पार्वती ॥ ११ ॥ लीलोद्यानवनश्मशानगमने स्वेच्छापराधीनयोः सम्यक्साम्बरतादिगम्बरदशासव्रीडनिर्व्रीडयोः । पर्याप्तातुलरामणीयकमहाश्रीभैरवाकारयोः क्षेमं वः शिवयोः समासमदृशोर्दिश्यादचिन्त्यं वपुः ॥१२॥ चूडेन्दोरिव रोचिषा मुकुलितं वातायनाभं श्रियः पानार्थं परिषेवितं मधुकराकारैः कुमाराननैः । औन्नत्यादधिवास्य वऋपवनैर्घ्राणोपयोगीकृतं कस्योरोजसरोजमस्ति न मनस्तोषाय गौरीशयोः ॥१३॥ अर्धं स्निग्धविमुग्धमिद्धहुतभुग्दिग्धं तथार्धं जग- त्पायादीश्वरयोस्तदक्षि तिलकस्थानस्थितं वीक्ष्य यत् । क्रीडाकर्मणि कार्मुकं करतले कर्तुं किरीटेन्दुना सोत्सेकश्च निरुत्सुकश्च युगपद्देवः स्मरो जायते ।।१।। व्याला वायुभुजस्तृणेढि च तृणान्युक्षा बुभुक्षातुरो निष्कौपीनपटः कुटुम्बभरणो किं त्वस्मि चिन्ताकुल: । दौर्गत्यादिति पिण्डमेकमकरोद्गौरीशरूपेण यो यश्चाभीष्टफलप्रदस्त्रिजगतः कस्मैचिदस्मै नमः ॥ १५ ॥ ज्याघोषैर्बधिरीकरोति ककुभो बाहू मुहुः पश्यति स्वस्यस्वेन विकत्थते रचयति प्रोच्चैस्तरां तर्जनीम् । यस्मिन्केवलमेव केलिरभसाज्जातेऽर्धनारीश्वरे वीरंमन्यतया स मन्मथभटो वातूलितस्तं स्तुमः ॥ १६॥