पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इन्दुदूतम् । मा कार्षीस्त्वं तरुणकिरणर्जालमार्गप्रविष्टे- स्तासां कान्तप्रसभहृतसच्चीवराणां प्रकाशम् । किं कुर्युः संवरितुमनलं भूष्णवस्तारस्त्वदंशू- न्मौरध्यादेवानवगतधवाक्ष्यब्जसंवृत्युपायाः ॥७॥ (युग्मम्) तत्राट्टानां ततिषु निहिता भूरिरत्नप्रकाश- स्तारास्ताराधव तव करैः सुष्टु संयोगमेत्य । प्राप्तोल्लासा इव नवरुचो दर्शनीया भविष्य- न्युल्लासं हि प्रथयति चिराबन्धुवाहानुषङ्गः ॥ ७२ ॥ लक्ष्मीस्तत्रारमति सततं भूरि कोटिध्वजानां गेहे गेहे बहुविधधनैः क्लृप्तनानास्वरूपा । दृष्ट्वा चैनां सुभग भगिनीं त्यक्तचाञ्चल्यदोषां चिन्तातीतं नियतमतुलं प्राप्स्यसि त्वं प्रमोदम् ॥ ७३ ॥ पकैकोऽस्य ध्रुवमुडुपते पाटकोऽन्यैः पुराणां वृन्दैस्तुल्यो जनपदसमान्येव शाखापुराणि । "मैकैकं पृथुतरमुरुग्रामतुल्यं तदस्य माहात्म्यं कः कथयितुमलं प्राप्तवाग्वैभवोऽपि ॥ ७४ ॥ मुक्तापुञ्जान्प्रतिपद रून्रत्नराशीन्प्रवाला- ङ्कूराञ्शङ्खान्मृगमदसरान्वीक्ष्य भूयो वरांश्च । मा ज्ञासीस्त्वं स्वपितुरुदधेर्हन्त सर्वस्वभात्त- द्रङगो ह्येष प्रकृतिगुणतो ज्येष्ठरत्नाकरोऽस्ति ।। ७५ ।। अस्य व्यक्त्या निशमनमहो वर्षलक्षानुपाति सामान्येनामृतकर ततश्चैकदेशो विलोक्यः । तस्मिन्दृष्टे निखिलमपि तदृष्टमेवावधेयं सर्वं दृष्टं वदति हि जनो वर्णिकादर्शनेन !! ७६ ॥