पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तत्रालोक्य स्वपतितनयं राजतेजोऽभिरामं दर्भाङ्कूरच्छलपुलकिता त्वामुपस्थास्यतेऽसौ । आमूलाग्रं तरलिततनुर्वीचिहस्तैरुदस्तै- र्दूरादालिङ्गितुमिव रसात्साभ्रमत्यब्धिकान्ता ।। ६५ ।। एषा क्वापि प्रचुरतरमैः काननैः कनकूला क्वापि क्रीडद्युवतिनिकरैरप्सरःसेवितेव । सद्वेषेव क्वचन विततैरम्बरैर्धौतमुक्तै- र्मुक्ताशुक्त्यावलिरुचितरैः क्वाप्यलंकारितेव ।। ६६ ॥ प्रीणात्येषाखिल... रजनान्सत्पयःपानदाना- दुत्सङ्गस्थान्रमयति च तान्केलिलीलाविलोलान् । दूरादालिङ्गति च विततैर्वीचिहस्तैः पुनीते पूतान्नास्याः कथमभिहिता(?)नेयगादानगर्याः ॥ ६७ ।। नद्याश्चास्याः सुचिरमुभयोः कूलयोः संनिविष्टा- श्चक्राह्नानां हृदयदयिताश्चाश्रुभिः क्लिन्ननेत्राः । पादैर्मा स्मारतिमुपनयैर्विप्रयुक्ताः प्रसह्यैः कण्ठप्राणा नहि विरहिणः कृच्छूमीषत्सहन्ते ॥ ६८ ॥ आरूढानां भवनवलभीं गौर्जरीणां त्वदीक्षा फुल्लाक्षीणां प्रियतमकरन्यस्तहस्तोत्पलानाम् । पश्यन्तीनां नगरमभितोऽलंकृतं चन्द्रिकाभि- र्बन्धो निर्वापय निजकरैः सुष्टु दृक्कैरवाणि ॥ ६९ ॥ क्रीडाहर्म्यं प्रियसहचरीप्रेरणाभिः प्रविष्टाः शय्योत्सङ्गं प्रणयचटुभिः प्रेयसा प्रापिताश्च । व्रीडोद्रेकाद्गृहमणिमुपाहत्य कर्णोत्पलेन कान्तोपान्ते तमसि कथमप्यासते या विमुग्धाः ॥ ७० ॥