पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इन्दुदूतम् ।
N
किंचिद्दूरे भवति च ततस्तत्र दुर्गोऽचलाख्यो
मौलौ तस्मिन्विलसति चतुर्द्वारमुत्तुङ्गचैत्यम् .
यादृक्तत्रोच्छ्रितमनुपमस्वर्णरीरीविमिश्रं
न क्ष्मापीठे क्वचिदधिगतं तागर्चाचतुष्कम् ।। ... !
नीचैः किंचिद्भवति च ततः कान्तमर्हन्निशान्तं
श्रान्तं तारादिव नवरुचां गन्तुमूर्ध्वं...
दुर्गस्याधोऽप्यथ जिनगृहं श्रीकुमारक्षितीन्दो-
र्वन्देथास्तेष्वनुपममते भावतः श्रीजिनार्चा ॥६॥
अस्त्येषोऽद्रि....मुपचितो भूरिदिव्यौषधीभि-
स्तस्मादस्योपरि किर रसं चन्द्रिकाणां विशिष्य ।
एताः पुष्टिं दधतु च रयादौषधीश... तेऽङ्ग--
स्पर्शात्स्त्रीणां परममुदितं यौवनं भर्तृ सङ्गः ॥२१॥
शैलेऽस्त्यस्मिन्प्रतिपदमहो लौकिकी तीर्थराजी
मिश्यादृष्टिक्षितिपतिनतिप्राप्तमिथ्यानुभावाम
न द्रष्टव्या सुभग भवता कौतुकादप्यसौ य-
न्मालिन्यं स्यात्तदभिगमनाच्छुद्धसम्यक्त्वरत्नैः १२ ॥
इत्थं स्थित्वा स्थिरतरधियां लोकनीयोऽर्बुदाद्रि-
रस्या दृष्टा जगति हि जनो गण्यते गर्भ एव :
दृष्ट्वा चैनं व्रज गजपते सत्वरैः पादपातै-
र्नीलस्यं स्थादुपकृतिकृतां त्वादृशां ह्युत्तमानाम्
ग्राम्यामस्माद्रज नगवरान्मारवीनां नवीनां
श्रीखण्डार्चां वपुषि रचयंश्चन्द्रिकाणां तरङ्गैः
सिद्धद्रङ्गे क्षणमथ सरस्वत्युपेते विलम्ब्य
राजद्रङ्गं भुवनविदितं यास्यसि व निमेषात्