पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तत्र श्रीमान्विमलवसतौ भाति नाभेयदेव- सेवायातत्रिदशनिकरः पूर्णपादोपकण्ठः । नेमिस्वामी दिशति च शिवान्यानतानां निविष्टः साक्षादिन्द्रालय इब वरे वस्तुपालस्य चैत्ये ।। ५३ । रूप्यस्वच्छोपलदलमयो चित्रदोत्कीर्णचित्रौ चञ्चञ्चन्द्रोदयचयचितौ कल्पितानीलशिल्पौ ! जीयास्तां तौ विमलनृपतेर्वस्तुपालस्य चौच्चौ प्रासादौ तौ स्थिरतरयशोरूपदेहाविव द्वौ ।। ५४ ॥ एषा भूमिर्विमल विभुना ब्राह्मणेभ्यो गृहीता चैत्यं कर्तुं रिपुसुरजिता सप्यमास्तीर्य विष्वक् । ऐतिह्यानि त्वमिति जरतां कुर्वतां मित्रगोष्ठीं तत्र श्रोष्यस्यनुसृतभवच्चन्द्रिकाणां मुखेभ्यः ।। १५ ।। द्रष्टव्यः स्यादयमपि सखे भीमसाधोर्विहार- स्तार्तीयोकस्त्रिदशसदनम्फानिगर्वापहश्रीः । एवं चैतत्त्रिभुवनमतिक्रम्य शोभाविशेषैः प्रासादानामिह समुदितं प्रीतिगोष्ट्ये त्रिकं किम् ॥ ५६ आस्ते चैत्यं स्वरतरकृतं नातिदूरे यदेषां तत्रोत्तुङ्गश्चतसृषु दिशास्वर्हतो वन्दमानः । साक्षादृष्टं समवसरणं यद्विदेहावनीषु तत्संस्कारोदयसहकृतं संस्मरिष्यस्यवश्यम् ॥ १७ ॥ अन्ये चात्रामृतकरहरिद्वाससां ये विहारा द्रष्टव्यास्ते न खलु भवता तत्र वन्द्या जिनाची । दिग्वेलानां कटुकमतिनां (2) द्रव्यलिङ्गस्पृशां य- न्नार्हद्विम्बं सुविहितमुनेर्वासयोगं विनार्च्य॑म् ।। ५८ ।।