पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इन्दुदूतम् । नादैर्गीतैरिव जनमनांस्याहरन्कीचकानां गन्धर्वाणामिव नवमरुच्चालनाद्धूर्णमानैः ॥ ४७ ।। शृङ्गेऽमुप्योन्नतिभृति सरस्तीरभूमिप्ररूढा- न्दूर्वाङ्कूरान्किल कवलयिष्यत्यसो ते कुरङ्गः । भूयः कालक्षुदुदयकृशश्चारणीयोऽयमिन्दो सामश्रम्भोभरतृणततेर्दुर्लभारखेटतोऽस्य ॥ ४८ ॥ कृजद्भिर्ये श्रुतिसुखकरा कोकिलैमल्लिकाना- मामोदैश्च प्रसृमरतरैः प्राणिनो मोदयन्ति । उद्गच्छद्भिर्नवनवतृणैर्वय(?)वैडूर्यबद्ध- क्षोणीपीठा इव विदधते शं निकुञ्जा द्रुमाणाम् ॥ ४५ ॥ तेषूच्चैर्भा स्म भवदभितः स्वर्वधूप्रस्तुतैस्तै- र्वीणानादैरपहृतमना दूरकृष्टो मृगस्ते । मा भूत्स्वेदस्तदनु च तदन्वेषणे वा विलम्बो गन्तुं त्यक्त्वाश्रितमणुमपि त्वादृशा नोत्सहन्ते ।। ५ ।। तस्मात्स्वस्मान्नयनविषयान्नायमत्यन्तदूरं गन्तुं सह्यो नवधनतृणावादविक्षिप्तचेताः । यन्निर्मग्ना अपि करिवरा अर्बुदाद्रेः कुडङ्गे- ष्वप्राणाः स्युर्बहलविदपिष्वन्यजन्तोः कथा का ॥ ५१ ।। (त्रिभिर्विशेषकम्) यद्यप्येतद्धनवनगतं नान्धकारं करास्ते हन्युर्मा भूत्तदपि हि भवान्स्वे मृदुत्वे विपण्णः । येषूष्णांशोरपि 'कराः कुण्ठतामाश्रयन्ते- ऽनङ्गक्रीडासदसि दिविषत्पुंश्चलीनां दिवापि ॥ १२ ॥