पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इन्दुदूतम् । क्रूर शान्तीयति गतकलं सत्कलीयत्यजस्रं लोकं सोऽयं जयति निखिलस्त्वद्भगिन्यः प्रभावः ।। २३॥ याते श्यामा सुभग दयिता वर्धयत्युग्रलक्ष्मीं पङ्कं पर्णं तुलयसि यया विप्रयुक्तस्त्वमिन्दो । सापि श्रान्तं भुवनमखिलं स्वस्वकर्मश्रमेण निद्रादानात्सुखयति सदाभीष्टविश्वोपकारा ॥२४॥ पीयूषार्द्रैस्त्वमपि किरणैर्जङ्गमस्थावराख्यं भूतग्रामं सुखयसि सुतं संस्पृशन्द्राक्पितेव । क्रूरैः शूरप्रकटितकरौर्निर्भरं क्लिष्टलोकां विष्वग्निर्वापयसि वसुधां सत्यमेवासि राजा ॥ २५ ॥ एवं विश्वोपकृतिकुशलः कः कुटुम्बे न तेऽस्ति प्रायः सद्भिः प्रथितचरितैस्त्वादृशैर्वर्णनीये। यद्वा रत्नाकर इति यशः प्राप युष्माभिरेवा- म्भोधिर्वप्रुर्भवति महिमोदारसत्त्वैस्तनूजैः ॥ २६ ॥ तस्माद्बन्धो जलधितनय प्रार्थनां मे समर्थ व्यर्थीकर्तुं न खलु कथमप्यर्हसि प्रौढवंश्य। येनोत्कृष्टं जगति विदितं याचमानस्य जन्तो- र्याच्ञाभङ्गे भवति लघुता नैव सात्किं त्वमुष्य ॥ २७ ॥ नाशक्यं ते भुवनवलये मित्र पश्यामि किंचि- त्तेजःपुञ्जैरनतिजरठैरक्रमाक्रान्तविश्व । पादान्मूर्ध्नि त्रिपुरजयिनः कौतुकेनोपधाया- ह्नाय स्मेरीकृतततजगद्व्यापि शौर्यप्रतापः ॥ २८॥ कामं क्षामाकृतिमपि जगद्यज्जयन्तं न कोऽपि छेत्तुं शक्तस्तदिह भवतो मातुलस्यानुभावात् । ४ चतुर्दशगु०