पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला न श्रान्तानां सुखयति कथा स्निग्धवर्गोदितापि स्वस्थे चित्ते प्रणयमधुरा बुद्धयो ह्युद्भवन्ति ।।१७ ॥ श्रुत्वा याच्ञां मम हिमरुचे न प्रमादो विधेयो नो वावज्ञाभ्यधिकविभवोन्मत्तचित्तेन कार्या। प्रेमालापैश्चतुरवनितानिर्मितैविस्मृतिं न प्राण्याः प्रायः प्रथितयशसः प्रार्थनाभङ्गभीताः॥१८॥ आतस्तातस्तव गुणनिधिः पश्य रत्नाकरोऽसौ वर्षे वर्षे नवजलधरप्रापितैरम्बुपूरैः । विश्व विश्वं तरुणतपनोद्दामतापाभितप्तं सेकंसेकं सुखयति सदाभीष्टविश्वोपकारः ॥ १९॥ किं नु ब्रूमस्तव जनयितुस्तस्य दानप्रियत्वं यो देवानां सततममृतैः कल्पयामास वृत्तिम् । अश्वं चोच्चैःश्रवसमसमं नागमैरावतं च दत्वेन्द्रस्य त्रिभुवनपतेः पूरयामास वाञ्छाम् ।। २० ॥ कन्यां दत्त्वा जगति विदितां यौतके कौतुकी च योऽदान्मोदाद्युगपदमलं कौस्तुभं पाञ्चजन्यम् । एवं विश्वंभरमतितमां प्रीणयामास लोभा- द्यन्नाद्यापि श्वशुरवसतिं संत्यजत्युत्तमोऽपि ॥ २१ ॥ जीयासुस्ते जगति विदिता भ्रातरः पञ्च चञ्च- न्माहात्म्यास्ते वितरणभटाः पारिजातद्रुमाद्याः । द्राक्संकल्पोपनतसकलाभीप्सिता अप्यभीष्टं याचन्ते यान्विनयविनता नाकिनो वासवाद्याः ॥ २२ ॥ मूर्ख प्राज्ञीयति च कुतनुं कामरूपीयति द्रा- ग्दीनं शूरीयति च कुटिलं प्राञ्जलीयत्यवश्यम् ।