पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६ श्यामं यस्मिन्नुपलरचितं दन्तिनं मत्तरूपं पुंरूपाभ्यामुपरि कलितं वीक्ष्य शङ्केऽद्रिशृङ्गे । उत्तीर्यैतत्पुरमनुपमं स्वर्गलोकादिहेन्द्रो- डदाक्षील्लोकैरिति विरचितं चिह्नमेतच्चकास्ति ॥ ६ ॥ स्थास्नुः शुण्डायुध इव मदात्कुण्डलीकृत्य दन्तो कृत्वोत्तानावुपलरचितो यत्र हस्त्यद्रिशृङ्गे । स्वर्गं जेतुं नभसि रभसादारुरुक्षोरमुष्य 1द्रङ्गस्येव स्फुटयति महाधीरनासीरभावम् ।। ७ ।। तसिन्योधाभिधपुस्वरे श्रीमदाचार्यपादा- देशान्मासांश्चतुर उषितो यो विनीतो विनेयः । साधुः सैष प्रहरविगमे भाद्रराकारजन्या प्राचीशैलोपरि परिगतं शीतरश्मिं ददर्श ॥ ८ ॥ दृष्ट्वा चैनं स पुरमगुरुध्यानसंधानलीन- स्वान्तःकान्तं तमिति रजने: स्वागतं व्याजहार । सद्यः साक्षाद्गुरुपदयुगं नन्तुमुत्कण्ठितोऽपि द्रागेतेन स्थितिपरवशो वन्दनां प्रापयिष्यन् ॥ ९ ॥ दिष्ट्या दृष्टः सुह्रदुडुपतेऽस्माभिरद्यातिथिस्त्वं पीयूषोधैर्भृशमुपचरन्प्राणिनामीक्षणानि । पुण्यैः प्राच्यैः फलितमतुलैरस्मदीयैरुपेया- न्नापुण्यानां नयनविषयं यत्प्रियः स्मर्यमाणः ॥ १० ॥ देहे गेहे कुशलमतुलं वर्तते कञ्चिदिन्दो नीरोगाङ्गी सुभग गृहिणी रोहिणी तेऽस्त्यभीष्टा । १. 'द्रङ्गपुर्याम्' इति हेमचन्द्रः,