पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। काश्मीरकमहाकविश्रीकल्हणकृतम् अर्धनारीश्वरस्तोत्रम् । भालं वन्हिशिखाङ्कितं दधदधिश्रोत्रं वहन्संमृत- कीडकुण्डलि जृम्भितं जलधिजच्छायाच्छकण्ठच्छविः । वक्षो बिभ्रदहीनकञ्चुकचितं बद्धाङ्गनार्धस्य वो भागः पुंगवलक्ष्मणोऽस्तु यशसे वामोऽथवा दक्षिणः॥१॥ वामे साञ्जनमक्षि दक्षिणदिशि श्यामायमानो गल: पाणौ तिष्ठति दर्पणोऽत्र मुकुटेऽमुत्र स्थितश्चन्द्रमाः । तन्मातेयमयं पितेति सुचिरात्सप्रत्यभिज्ञं शनै- र्यस्योत्सङ्गमगाद्गुहो भवतु वः प्रीत्यै सं गौरीश्वरः ॥ २॥ मुञ्चेभाजिनमस्य कुम्भकुहरे मुक्ताः कुचञ्योचिताः किं भालज्वलनेन कज्जलमतः कार्य तवाक्ष्णोः कृते। संधाने वपुरर्धयोर्भगवतोरित्थं निषेधेऽप्यहेः कर्तव्ये प्रिययोत्तरानुसरणोद्युक्तो हरः पातु वः ॥ ३ ॥ विहितमजगोशृङ्गाग्रामाभ्यां धनुर्घटितं तथा नरकरटिनोर्देहार्घाभ्यां गणं प्रतिगृह्णतः । १. सुप्रसिद्धोऽयं कवियरः लिखवादनशताब्द्यामेनं अन्य प्रणिनिनाय. अधिक त्येतद्विषये Dr. M.A.STHAN, PH, D., महाशयवरविरचितराजत-

राशिणीभूमिमातोऽवसेयम्.


१. सुप्रसिद्धोऽयं कवियरः लिखवादनशताब्द्यामेनं अन्य प्रणिनिनाय. अधिक

त्येतद्विषये Dr. M.A.STHAN, PH, D., महाशयवरविरचितराजत- राशिणीभूमिमातोऽवसेयम्.