पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कृच्छ्राच्चेद्धनमर्जितं जनयति 1ज्ञातिष्वसूयां परां दृष्टिं राजसु दण्डने वधकरं चोरेषु चौर्योधमम् । गुर्वीमार्जितवत्सु भीतिमसुखां हातु तदर्थस्पृहां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १२१ ।। स्वामित्राम जगत्पते निरुपमत्रय्यन्तवेद्य प्रभो त्वत्प्रीतिं कुरुतामयं विरचितो मे विश्वगर्भस्तवः। एतेन स्तुवतां नृणामभिमतं देहीति याचन्नहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १२२ ॥ तस्मै प्राञ्जलिरस्मि सर्वजगतां नाथाय पाथोनिधि- त्वङ्गतुङ्गतरङ्गभङ्गुरशरोदन्याय धन्यात्मने । पौलस्त्यश्रुतिमण्डलीलटहतालुण्टाकघण्टाकन- कोदण्डाटनये विनम्रमुनये श्रीजानकीजानये ॥ १२३ ॥ दिष्ट्या लब्ध्वापि कल्पद्रुममपचिनुते तस्य पत्राणि भोक्तुं लब्धायाः कामधेनोरपहरति सकृद्भुक्तभूमार्जनाय । सप्राप्तं हन्त चिन्तामणिमपि खनति व्रीहि विध्वंसहेतो. र्मूढोऽयं याचते यः किमपि फलमिह प्रीतमीशं रधूणाम् १२४ हुंकुर्वद्भिरुदञ्चितभृकुटिभिर्मृत्योर्भटैस्तर्जितं देवेन प्रहितस्य दाशरथिना मां त्रातुमाधावतः । आरोहेदपि किं मम श्रुतिपथं प्राणप्रयाणक्षणे दिक्कोणेषु विसृत्वरो हनुमतो लाङ्गूलघण्टारवः ॥ १२५ ॥ इति विश्वगर्भस्तवः समाप्तः । १. 'ज्ञातुं तदर्थस्पृहाम्' इति पुस्तकत्रये वर्तते; "हातुं तदर्थस्पृहाम्' इति चतुर्थे पुस्तके.