पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विश्वगर्भस्तवः । काले खेलति कः स्थिरोऽस्तु भुवने दिष्ट्याहमेतद्विदं- स्तस्मै प्राञ्जलिरस्मै दाशरथये श्रीजानकीजानये॥ ११५ ॥ यां पश्यन्त्यतिसुन्दरीमनशने तामेव शोच्याकृतिं भूतेन असने दुरीक्षवपुषं रोगे जुगुप्साकृतिम् । भीमाङ्गीं मरणे नरा इति विदन्दारैषणां निन्दित्तां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ११६ ॥ कस्या धर्मपरा मतिर्भवतु का साध्वीं प्रसूतां प्रजां तस्या वा तनुरस्तु लक्षणवती काले कलौ दारुणे । तद्दारेषु वृथा परिग्रहरुचिर्यत्तत्फलप्राप्तये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ११७ ॥ पुत्रश्चेजनितः स जीवति न वा जीवन्स कामो न वा कामो वंशकरो न वा स इति यन्मज्जन्ति चिन्तार्णवे। मां यत्तनयैषणा तत इयं व्यथेति मत्याप्तये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ११८ ॥ विध्युक्तेन पथा कथापि न नृणां वित्तार्जनस्याधुना यद्विप्रा अपि धर्ममार्गविमुखा नैवाचरन्त्याश्रमान् । राजानश्च धनेप्सवोऽस्तविधयस्त्यक्तुं तदर्थेषणां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ११९ ।। राजद्वारि निविश्य राजपुरुषानाश्रित्य रात्रिंदिवं शास्त्रेषु प्रकटय्य पाटवमपि प्राप्ते धनेऽप्यंहसः । दायादैरुपभुज्यते तदपि न त्वंहो विरक्तुं तत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥१२०॥