पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यश्चास्मत्कुलदेवता निरुपमा यस्यैव दीने दया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ११० कस्माञ्चित्प्रथमोपकारमुदितात्कल्याणशीलान्मुने- र्यंक्त्यासोच्चरिते निशम्य गुणयन्पुण्ये यदाख्याक्षरे । कृत्स्नेऽधेऽपि गतेऽजनि द्विजकुले कश्चिकिरातः पुरा तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। १११ नित्या न क्रतवः कृता न नितरामास्तथोपार्जिता 1भुक्ता न प्रमदा यथोचितरसं का नाम मोक्षे स्पृहा । इत्थं जन्म निरर्थक परिणमन्नेतुं कथंचित्फलं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ११२ कौमारे विहृतं वृथा न किमपि ज्ञातं मदाद्यौवने दौर्बल्यैकपदे किमस्ति सुकरं प्राप्त पुनर्वार्धिके । आयुश्च स्रवति क्रमादिति विदन्दैवादहं सांप्रतं तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ।। ११३ । पूर्वेधुर्यमपश्यमद्य तु न तं पश्यामि यद्भूतले कालस्यैष न किं कठोरमनसः क्रूरो विहारक्रमः । इत्थं हन्त विनश्चरेषु मनुजेष्वन्यत्करिप्यामि किं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ११४ । कायो भ्रश्यति कस्यचित्तु तमनुक्रन्दन्त्यहो बान्धवा- स्तेषामप्यहह क्षणैः कतिपयैर्भ्रश्यन्ति काया न किम् । m १. तथा च भर्तृहरि:--'नारीपीनपयोधरोरुयुगली स्वोऽपि नालिङ्गित स्वर्गद्वारकवाटपाटनपटुर्धर्मोऽपि नोपार्जितः' इति.