पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विश्वगर्भस्तवः । भीतिः का परलोकतस्तनुभृतां पीडाकरात्यापिनां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। १०५ ॥ रामेत्युच्चरितव्यमक्षरयुगं तच्चापि भक्त्त्या सकृ- त्प्राप्या तेन विमुक्तिरेव यदि तज्जानात्यपि ग्लायसि । कि वक्ष्ये सुखमास्व देवि रसने स्निग्धौ1 मम स्त: करौ तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥१०६॥ सन्तः पातकतूलचण्डयवनं शंसन्ति यत्कीर्तनं यत्काश्यामुपदिश्य विश्वपतिना मुक्तिर्नृणां दीयते। यञ्च श्रीशसहस्रनामसदृशं यन्नाम तन्निश्चितं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०७ ।। सत्यानन्दचिदात्मवस्तुनि रमन्तेऽस्मिन्यतो योगिन- स्तस्माद्राम इतीदमेव हि परं ब्रह्माभिधत्ते पदम् । इत्येवं विवृणोति यौगिकतया यन्नाम विद्वज्जन- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०८॥ अध्यारुह्य कवित्वचूतविटपं वाल्मीकिपुंस्कोकिलो जल्पन्नाम यदीयमद्भुतसुधामाधुर्यधुर्याक्षरम् । शृण्वन्तं जनमाशु संघटयति श्रेयःसमृद्धिस्त्रिया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ! १०९॥ यस्त्रय्यन्तविचारणैकसुलभो यः सर्वलोकेश्वरो यस्मिन्नायतते स्म राक्षसपतिक्षुभ्यज्जगद्रक्षणम् । २. श्रेयः १. 'स्निग्धौ' इत्यत्र 'वश्याविति वा' इति पुस्तकत्रयेऽपि दृश्यते. समृद्धिरेव स्त्री युवतिः तया इत्यर्थः.