पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अप्राज्ञेष्वपि पण्डिता इति पुरो यः श्लाघया भ्राभ्यतो यस्मिन्त्रिद्वदविद्वदन्तरमतिर्नास्त्येव दातुः प्रभोः । प्रज्ञानामतिदुःसहं कलिमहं तं जेतुमेवाञ्जसा तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १० ॥ आपद्मासनमास्वमध्वरविधेरैषामनर्ह कुलं येषामर्हमभूच्च तुल्यमुभये ते यद्गृहीतैर्द्विजैः । याज्यन्ते किमिमं ब्रुवे कलिमतस्तस्य प्रहारेच्छया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०१।। किं त्वं मे नियतां ददासि न भृतिं यः सम्यगध्याप्यसे निर्णीतां भृतिमर्पये न भवते नाध्यापयस्येव यः । इत्थं यो गुरुशिष्ययोः कलहकृज्जेतुं कटुं तं कलिं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०२ ।। ऊढा नालमिति 1प्रजासु जनितास्वप्युद्वहन्तीतरां नालं सेति च गूढमन्यगृहिणीं गृह्णन्ति भोक्तुं नराः । इत्युद्दीपयतः कलैः स्मरमपि प्राप्तुं जुगुप्सामहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १०३ ॥ दौष्ट्यं साधुषु साधुतामपि तथा दुष्टेषु मूढेष्वपि प्राज्ञत्वं बत मूढतामपि पुनः प्राज्ञेषु यः शंसति । राज्ञोऽग्रे पिशुनः कलौ स नरकी मा भूवमित्युत्सुक- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। १०४॥ संमुह्यन्मनसो मम प्रतिदिनं संभावितानां पुनः पापानामपनोदनाय सुवचे यस्यैव नाम्नि स्थिते । १. 'प्रजा तु जनपुत्रयोः' इति वैजयन्ती.