पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विधगमलवः। बुद्धिः स्वं विमलं न वेत्तु मम किं त्वेनां पुनीहीत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९४ ॥ मत्वा साधुरसाविति स्त्रियमपि ज्ञात्वा तदीयां सतीं स्त्रीपुंसानपि तद्गृहे सुचरितानिश्चित्य धूर्तानपि । भुक्त्वान्नान्यपि दाम्भिकस्य भवने प्राप्तान्यधान्युज्झितुं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९५ ॥ वापीकूपतडागकर्मणि तथैवारोपणे भूरुहा- 1मन्धो-गो-वसु-वाससां वितरणे यज्ञक्रतूनां विधौ । मर्त्यानां हृदयं प्रवर्तयति यत्पादाजसंसेवनं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९६ ॥ प्राज्ञादप्यधिको जडः सुकृतिनोऽप्युत्कर्षवान्यातकी पुत्रोऽर्हञ्जनकादपि स्तुतिपदं बालश्च वृद्धादपि । येनार्थेन स यत्पदाम्बुजसकृद्ध्यानेन लभ्या नृणां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १७ ॥ मल्लीदामसुगन्धिचारुचिकुरा भाद्यञ्चकोरीदृशः पीनोत्तुङ्गपयोधराः पिकवधूसुस्निग्धकर्णस्वराः । हेमाङ्गयः स्मरगर्विता युवतयो लभ्या यमभ्यर्चतां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९८ ॥ यत्रानन्दमयं यदाप्य न पुनर्मर्त्यः समावर्तते यत्र ब्रह्मामहेन्द्रचन्द्रशकलोत्तंसा निनंसाभृतः । तद्विष्णोः परमं पदं नियतया लम्येत यस्यार्चया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ९९ ॥ १. अन्धः शब्दः सकारान्तोऽन्नवाची.